SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीजेन कथासंग्रहः ॥३१॥ त्वया कृतम् ? । वीतरागप्रभोर्बिम्बे केर्ष्णेयं, तव हा हता ? ।। ९७ ।। भगवद्विम्बतिरोधानात्, मौद्यादात्मा त्वया भवे । विवेकरहिते ! चात्मा दुःखभोक्ता कृतो भृशम् ॥ ९८ ॥ स्वल्पाप्याशातना मुग्धे, बहु दुःखाय जायते । प्रतिमैषा प्रभोः साक्षाद्वाच्यं तत्र च किं खले ! ॥ ९९ ॥ जयश्रीवचनैः साऽपि राज्ञी स्वर्णोदरी तदा । अकृत्यकरणाद्भीरुः, पश्चात्तापमथाकरोत् ।। १०० ।। आत्मानं बहु निन्दन्ती, सद्य एव ततः प्रभोः । बिम्बमादाय प्रक्षाल्य, क्षमाप्य च मुहुर्मुहुः ॥ १०९ ॥ यत्रासीत्तत्र नीत्वा च यथापूर्वमतिष्ठिपत् | स्वदोषनिन्दनेनापि चात्मा भवति निर्मलः ॥ १०२ ॥ तद्दिनात्सा च सम्यक्त्व-धारिणी शुद्धचारिणी । त्रिकशुद्ध्या शुभावस्था, जैनधर्ममपालयत् ॥ १०३ ॥ पूर्णायुषि ततो मृत्वा, शुभध्यानेन सा शुभा । सौधर्मकल्पके जज्ञे, देवीत्वेन महीयसि ॥ १०४ ॥ ततश्च्युत्वा सखी सेयं, महेन्द्रक्षितिपाङ्गजा । जज्ञे च वृत्तमेतत्ते, मयाऽऽख्यातं परं शृणु ।। १०५ ।। निन्द्यस्थाने प्रभोर्बिम्बं प्राक्षिपदीर्ष्यया पुरा। तत्कुकृत्य - फलं सम्यगधुना भुज्यतेऽनया ।। १०६ ।। अनुमोदयित्री त्वञ्च तथाऽस्याश्च सहायदा । एतयातः समं दुःखं त्वयाप्यनुभूयते ॥ १०७ ॥ दुष्टकर्मफलं प्रायो, भुक्तमेवाशुभोदयम् । जिनधर्ममतः सेव्यः, प्रतिभवसुखप्रदः ।। १०८ ।। आगत्य मातुलश्चैव मञ्जनाया वितर्कितिः । नेष्यति स्वगृहं स्वस्था, तत्र स्थास्यति ते सखी ॥ १०९ ॥ अचिरेणैव संयोगः, सह पत्या च मोददः । भविष्यति महासत्या, ॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥ ॥३१॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy