________________
श्रीजैन
कथासंग्रहः
॥ीमा सुन्दरीचरित्र
॥३०॥
दिग्यशोभाजः, सुकण्ठधरणीपतेः॥ ८५॥ स्वर्णोदरीप्रियाकुक्षेः, सिंहवाहनमामकः । पुत्रोऽजनि चिरं राज्यं, भुक्त्वा देव इवापरः ॥८६॥ विमलप्रभुसत्तीर्थे, लक्ष्मीधरमहामुनेः । व्रतजग्राह धीरात्मा, स्वनिर्वाणफलोदयम्॥८७॥
सुदुष्करतपस्तप्त्वा, मृत्वा जज्ञे च लान्तके । अवातरत् ततश्च्युत्वा, अञ्जनायाः शुभोदरे॥ ८८॥ गुणराशिर्महायोधा, विद्याधरमहीपतिः । चरमाङ्गी शुद्धचेताः, पुत्रोऽयञ्च भविष्यति ॥ ८९ ॥ स्वसख्या अञ्जनायास्तु, शृणु पूर्वभवं तथा । श्रुत्वा यं खेदसन्तान, उभयोरपि यास्यति ॥ ९०॥ अस्तीह नगरं रम्यं, कनकपुरसंज्ञकम्। कनकरथभूपोऽत्र, महारथिशिरोमणिः ॥ ९१॥ स्मरस्येव रतिप्रीती आसीत्तस्य प्रियाद्वयी। कनकोदरीचैका हि, परा लक्ष्मीवती तथा ॥ ९२॥ श्रद्धालुः श्राविका चासीत्, लक्ष्मीवती महासती । धर्मध्यानमनोभावा, गुर्वादिसेवनोत्सुका ।। ९३ ॥ गृहचैत्ये च या स्वस्य, जिनबिम्बं सरत्नकम् । संस्थाप्य पूजयामास, त्रिकालमतिभक्तितः॥ ९४॥ स्वर्णोदरी परञ्चाभूदीर्ध्यावती खलाऽऽशया। आदाय जिनबिम्बं सा, प्राक्षिपत्स'करोदरे ॥ १५॥ तदाऽनगारिणां काचिजया नाम्नी तपस्विनी। विहरन्त्याययौ तत्र, दृष्टा सा च तथाकरी॥ ९६ ॥ आह सा सान्त्वया वाचा, भद्रे! किं हा १कचवरे
॥३०॥