SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ + * श्रीजैन कथासंग्रहः ।। श्रीअञ्जनासुन्दरीचरित्रम् ॥ ॥२७॥ ddddd । ईदृशञ्चरितं किञ्च, वधूनां न क्वचिद्भवेत् ॥ ४७ ॥ द्वेषिणीयं खला पत्यौ, पूर्वमेव श्रुतं मया। प्रीतिभावस्ततोऽमुष्यां, वायो! भून्मनागपि ॥ ४८ ॥ तं विना गर्भिणी पापा, जातेयञ्च कथं वद ?| 'बन्धकीयं ततो मन्त्रिन्, सदोषैव विभाव्यताम् ॥४९॥ तच्छ्वश्वा केतुमत्या तु, कृतं साधु बहिष्कृता । इतोऽप्येषा च निष्कास्या, चादृश्याऽऽस्या हि सत्त्वरम् ॥ ५० ॥ इत्थम्भूपाऽऽज्ञया कल्ये, क्रन्दमानजनेक्षिताम् । अञ्जनां द्वारपालोऽपि, गृहादहिस्त्वकारयत्॥५१॥ क्षुत्पिपासाऽऽकुला बाला, मुञ्चन्ती श्वाससन्ततिम् । धरणीमश्रुधाराभिः, सिञ्चन्तीव पदे पदे॥५२॥दर्भविद्धक्रमच्योतद्रुधिरेण नु मेदिनीम् । रञ्जयन्ती स्खलन्ती च विश्राम्यन्ती प्रतिद्रुमान् ॥ ५३ ॥ रोदयन्ती दिशश्चापि, सह सख्याऽतिपीडिता । अपश्यन्ती परोपायं, ततः खिन्ना विनिर्गता ॥ ५४ ॥ येषु येषु पुरेष्वेषा, ग्रामेषु नगरेषु च । प्रयाति तत्र भूपालः, पुरुषैश्च निवार्यते ॥ ५५ ॥ हेतुनाऽनेन सा बाला, स्थिति क्वापि न चाकरोत् । आपतद्व्यसने हन्त भवन्ति रिपवोऽखिलाः॥५६॥ इत्थं विश्वग्-निराधारा, श्रान्ता गर्भभरा सती। क्रमशो दैवयोगेन, ययौ सा भीषणाटवीम् ॥ ५७ ॥ तत्राद्रिरम्यनैकुञ्जद्रमस्याधः सखीद्वया। स्थिताऽतिवेदनामूढा, विललाप भृशं मुहः ॥ ५८ ॥ उवाचेति धरापृष्ठे, चैकाऽहं मन्दभागिनी। १कुलटार प्रातः समये। ॥२७॥ Tar
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy