SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥२६॥ विद्याधरमहाधीश- माहेन्द्रतनुसम्भवा । दृश्यते च निरानन्दा कष्टं किं पतितं महत् ॥ ३४ ॥ इत्थं वितर्क्यमाणं तं वसन्ततिलका सखी। आद्योपान्ताखिलोदन्तं, निजगाद पटीयसी ।। ३५ ।। तद्वृत्तं सकलं सोऽपि कथयामास भूभुजः । श्रुत्वेति लज्जया नम्रः, श्यामाऽस्यश्चाभवन्नृपः ।। ३६ ।। दध्यौ च हृदि भूपालो, विपाक इव हा विधेः । अचिन्त्यञ्चरितं स्त्रीणां, भार्गवोऽपि खलायते ॥ ३७ ॥ अञ्जना कुलटा चैषा, कुपुत्री कुमतिः शठा । श्यामीकर्तुकुलं मेऽद्य, मदालयमुपागता ॥ ३८ ॥ दूषयत्युज्ज्वलं वासश्चाञ्जनस्य लवोऽपि तु । निष्कलङ्ककुलं पूर्वं दूषितमनयाऽधुना ।। ३९ ।। इत्थञ्चिन्तयतो राज्ञः, प्रसन्नकीर्तिस्तत्सुतः । अप्रसन्नमुखाम्भोजो, नीतिमानाह कोपनः ॥ ४० ॥ अधुनैव गृहादेनां, निःसारय पितस्त्वरा । परम्परागतं पूतङ् - कुलं दूषितं मे तया ॥ ४१ ॥ पुत्रीयं ममता त्याज्या, स्वैरिणीयं गतत्रपा । छिन्दन्ति सुधियः किं नो, चाङ्गुलिमुरगक्षताम् ? ॥ ४२ ॥ महोत्साहाभिधो मन्त्री, तदाऽऽह विनयान्वितः । श्वश्रूसन्तापतप्तानां कन्यानां शरणं पिता ॥ ४३ ॥ कदाचित्क्रूरया श्वश्वा, चाऽऽरोप्यास्यां च दूषणम्। निष्कासिता भवेद्वाला, प्रत्ययः कोऽत्र बुध्यताम् ? ॥ ४४ ॥ सदोषा वाऽथ निर्दोषा, यावद्राजन् ! न. निर्णयः । रक्षणीया रहस्ताव- दनुकम्प्या च सुता भवेत् ॥ ४५ ॥ राजाऽऽह साधु भो मन्त्रिन् पुत्रीयं मम वल्लभा । नष्टशीला परञ्जज्ञे, श्लाघ्यस्त्यागस्ततो मतिः ॥ ४६ ॥ श्वश्वः सर्वत्र हि दुष्टा, भवन्ति खलबुद्धयः ॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥ ॥२६॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy