________________
AL
॥श्रीअज्ञानासुन्दरीचरित्रम् ॥
कणमात्रोऽपि कार्शानु-दहति सकलं वनम् ॥२०॥ तिरस्कृत्य वधूमेवं, केतुमती च निर्दया । आहय सेवकान् प्राह, विचाराध्वविवर्जिता ॥ २१ ॥ अद्यैव सत्त्वरीतां, नयध्वं पितृमन्दिरम् । क्षणमपि मुखवास्या द्रष्टुं नाहच कामये ॥ २२ ॥ बदाज्ञामुररीकृत्य, सेवका अपि तान्तदा । वसन्ततिलकोपेतामारोप्य वरवाहनम् ॥ २३॥ माहेन्द्रनगराध्यण, निन्युश्च वायुवल्लभाम् । साश्रुनेत्राच ते मन्दं, वाहनादुदतारयन् ॥२४॥ मातृवत्तां नमस्कृत्य, क्षमाप्य निर्ययुः पुनः। स्वामिवत्स्वामिकौटुम्बे, समानाः सेवकोत्तमाः॥ २५॥ एकाकी विजने बाला, तापसीव च सा तदा। तस्थौ तत्र निजाऽऽधारस्वामिनाथमनःस्थितिः ॥ २६ ॥ तदानीमेव मन्येऽहं, तद्दुःखदुःखितो भृशम् । विश्वप्रकाशिसूर्योऽपि, पश्चिमाम्बुधिमाश्रयत् ॥ २७ ॥ यतः सन्तः परापत्तिं, वीक्षितुं प्रभवो न हि । असन्तस्तत्र मोदन्ते, भेदोऽयमुभयोरिह॥२८॥ पुनः सा घूकघूत्कारैः, फेरुफेत्कारकैस्तथा। कण्ठीरवमहाक्रन्दै-मुंगयूनाञ्च कलकलैः॥२९॥रक्षःसङ्गीतसाद्दश्यैः, पिङ्गलायाश्च निस्वनैः । निर्भग्नश्रुतिरन्फ्रेव, यापयामास यामिनीम् ॥३०॥ उदिते च दिवानाथे, स्फुरत्सु किरणेषु च । अञ्जना सत्कुलोत्पन्ना, हिया भृशमदूयत ॥३१॥ सपरिवारसंयुक्ता, भिक्षुकीव शनैः शनैः । म्लानाऽऽस्यकमला साध्वी, चाऽऽययौ पितृमन्दिरम् ॥३२॥ यावद्वारि समायाता, प्रतीहारेण सेक्षिता। अकस्मादागतां दृष्ट्वा, सम्प्रमोऽभून्महान् क्षणम् ॥३३॥
KEEMENREM
॥२५॥