SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीअञ्जनासुन्दरीचरित्रम् ॥ ॥२१॥ म. कदर्थिता॥१२०॥सर्वथा व्यपराधाऽसि, कान्ते ! मदनसङ्गिनि! । दोषवानहमेवास्मि, क्षन्तव्योऽयं जनस्ततः ॥ १२१ ॥ आकण्येति गिरः पत्युः, स्वकापराधबोधिकाः । नश्यत्तापोल्लसन्मोदा, प्राहेति क्षितिपात्मजा ॥ १२२ ।। प्राणेश्वर ! गुणागार !, नाथ ! नेत्थं निगद्यताम् । त्वत्पादपद्मभृङ्येषा, क्षमायाचा न चोचितम् ॥ १२३ ॥ इत्थम्परस्पराऽऽलापैरन्योन्यप्रीतिवर्द्धकैः । अपूर्वाऽऽनन्दपाथोधौ, ब्रडिताविव तावुभौ ॥ १२४ ॥ वसन्ततिलका दासीमित्रं प्रहसितस्तदा । अज्ञात्वेव शनैर्दक्षौ, बहिः सत्त्वरमागती॥ १२५ ॥ जायापत्यो रहः प्रीत्यामुल्लसन्त्यां हृदेकयोः । न स्थातव्यं तदा तत्र, चतुरैश्च नियोगिभिः॥ १२६ ॥रेमाते च ततः स्वैरं, रतिभावविशारदौ । विना मारकलां केलि-मुधैवेति बुधा जगुः॥१०॥यामका रजनी जाता, तयोश्च रममाणयोः । विषयाऽऽनन्दलीनानां वत्सरोऽपि क्षणायते ॥१२८॥ व्युष्टायाच ततो रात्रौ, सति प्रगेच निर्मले। कार्यार्थी पवनः प्राह, चिरप्रीत्यञ्जनां प्रति।।१२९।। विजयायाधुना कान्ते!, रावणारेश याम्यहम् । अन्यथा चेष्टितं सर्व, ज्ञास्यन्ति गुरवो मम ॥ १३०॥ प्राणेश्वरि! नते कार्यः, खेदो हि पूर्ववत्त्विह। त्वत्प्रेमपाशबद्धाङिघ्र-र्जातोऽहं साम्प्रतं प्रिये!॥१३१॥ यावल्लापतेः कार्यकृत्वाऽऽगच्छेयमत्र च । तावच्च ससुखं कालः, सखीभिः सह याप्यताम् ॥१३२॥ अष्टमीन्दूल्लसद्भाला, बाला साऽथ वियोगतः । दूधमानाऽपि कान्तस्य, सधैर्येव जगाविति ॥ १३३ ॥ ॥२१॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy