________________
कथासंग्रहः
॥श्रीअज्ञानासुन्दरीचरित्रम् ॥
॥२२॥
तावकोपमवीराणां, कार्यन्तु सिद्धमेव च । त्वन्नामश्रवणेनैव, व यान्ति रिपुवारिदाः ? ॥ १३४ ॥ जीवन्ती यदि मां नाथ! द्रष्टुमिच्छसि चेत्पुनः। साधयित्वा निजकार्य-मागतिर्दाग विधीयताम् ॥१३५॥ त्वन्मनोमानसाम्भोऽन्तःप्रीतिमुक्ताफलस्पृहा । पूर्यतामाशु मे नाथ !, गम्यताञ्जयवैरिणः ।। १३६ ॥ परमासीदियं स्वामिन्नृतुस्नाता च साम्प्रतम् । अन्तर्वत्नी भवेयञ्चेल्लोकोक्तिः केन वार्यते ? ॥ १३७ ॥ दुरस्थे यदि कान्तेऽपि, दुर्जनः किं वदिष्यति ?। रहस्यं दुर्जनानां हि, हृदये नोपतिष्ठते॥१३८॥ पवनः प्राह मा ताम्य, चागमिष्यामि सत्त्वरम्। आगते मयि भोः कान्ते! किं वदिष्यन्ति ते खला: ?॥१३९ ॥ मन्नाममुद्रिकां वाऽथ, मत्समागमबोधिकाम् । गृहाण तादृशे काले, प्रकाश्या सा त्वयाऽनघे॥१४० ।। उक्त्वेति मुद्रिकां दत्त्वा, प्रोड्डीय पवनस्ततः । मानसाख्यसरोऽभ्यणे, स्वशिबिरमुपासरत् ॥ २१ ॥ देववत्सह सैन्येन, गच्छन् खे पक्नञ्जयः । लङ्कापुरी समागत्य, पौलस्त्यञ्च ततोऽनमत् ॥ १४२ ॥ तरुणार्कनिभः कान्त्या, रावणोऽपि ततस्त्वरा । वरूथिन्या सह योद्धु, वरुणं प्रति प्राचलत् ॥१४३॥
- वाय्वञ्जनासङ्गमवृत्तरम्ये, लड्डेशवाताभिप्रयाणसौम्ये। पंन्यासमुक्तिग्रथिते चरित्रे, गुच्छो द्वितीयस्त्वगमत्समाप्तिम् ॥१४४।।
॥२२॥