________________
श्रीजैन कथासंग्रहः
॥श्रीअञ्जनाXxसुन्दरीचरित्रम् ॥
॥२०॥
दर्शनाद्यस्य, सन्तापस्ते प्रयास्यति ॥१०७ ॥ त्वत्स्वामीति सुधाकल्प-वचःश्रुतिगतज्वरा । जाताऽपि खिन्नवक्त्रेव, बभाषे श्वाससन्ततिः ॥ १०८ ॥ हासितेयं विधात्राऽस्ति, प्रहसितमहामते ! । हासयसि मुधा मां किं, पुनस्त्वं मन्दभागिनीम् ? ॥ १०९ ॥ न नर्मसमयश्चैष, को दोषस्तव वा त्विह । मत्पूर्वकर्मदोषोऽयमन्यथा मां कथं त्यजेत् ? ॥ ११०॥ पाणिग्रहणमारभ्य, द्वाविंशवत्सरा मम । गतास्त्यक्ता च कान्तेन, तथाऽप्येषा च जीवति ॥ १११॥ दुःखनिश्वासपूर्वोक्तिं, निशम्यैव स मारुतः। खण्डयन्निव तदुःखं, प्रविवेश गृहान्तरम् ॥ ११२॥ साश्रुरव्यक्तभारत्या, करुणारससञ्जुषा । तामुवाच प्रियां वायु-स्तारामिव कपीश्वरः ॥११३॥ वैधेया पण्डितम्मन्या, इव चैषोऽपि बुध्यताम् । निर्दोषा येन भो भद्रेऽत्याजि वैवाहवासरात् ॥११४॥ मद्दोषादीद्दशी शोच्यां, दशां याताऽसि साम्प्रतम् । अचिरादेव दुःखार्ता, मृता चैव न संशयः॥११५॥ जीविता यन्मया दृष्टा, मद्देवं तत्र कारणम् । ब्रुवन्तमिति कान्तं स्व-मज्ञासीदञ्जना तदा ॥ ११६ ॥ तदैव ह्रीमती बाला, तल्पादवतार च । तल्पपादाऽऽश्रिता तस्थौ, पश्यन्ती भुवमेव सा ।। ११७ ॥ विनयो हि कुलस्त्रीणां, स्वागतमिह सुन्दरम् । वेदनाक्षीणकायाऽपि, प्रश्रयं न च सा जहौ ॥ ११८॥ सकङ्कणभुजं तस्या, लतामिव मतङ्गजः । गृहीत्वा पवनो धीमान्, पर्य समभूषयत् ॥ ११९॥ भूयोऽपि व्यथमानाङ्गो, व्याजहार वचोऽनिलः । प्रिये क्षुद्रधिया कामं, मया त्वच
॥२०॥