________________
श्रीजैन कथासंग्रहः
॥श्रीअञ्जना - Xx सुन्दरीचरित्रम् ॥
-
॥१९॥
शून्यदृष्टिमना यावजज्ञे काष्ठमयीव सा । ईदृस्थितिगता बाला, प्रहसितेन वीक्षिता ॥ १४ ॥ कृशाङ्यष्टिमातप्तां, निपतन्तीमितस्ततः । त्यजत्प्राणामिवैनां स, दृष्ट्वा हृदि व्यचिन्तयत् ॥१५॥ अहो बालिश्यमेतस्य, येनेयं मन्तुमन्तरा । गमितेमां दशां हन्त, घिग् दैव! चेष्टितं तव ॥१६॥ संसाराऽऽवासतप्तस्य, वैराग्यमिव सन्मुनेः । चिन्तयन्निति शुद्धात्मा, तदन्तिकमुपागमत् ॥९७॥अकाण्डे पतिमित्रं तं, व्यन्तरमिव निजालये । प्रविशन्तञ्जगादैषा, भीताऽपि धैर्यशालिनी ।। ९८ ॥ कोऽसि त्वमागतो हेतो, कुतो रे परपूरुष!। अलं ज्ञातेन वा भद्र!, गम्यतां मद्गृहाद दूरम् ॥ ९९ ॥ प्रविष्टोऽसि विशङ्कस्त्वङ्कथमत्र वधूगृहे । वसन्ततिलके ! सद्यो, भुजग्राहं निसारय ॥१००॥ निर्मला चन्द्रवच्चास्मि, न द्रष्टव्यः सको मया। नान्यः प्रवेष्टमीशोऽत्र, मत्पतिपवनम्विना ॥१०१॥ नाधिकारः परस्यात्र, प्रवेशे मनिकेतने। पुण्यात्मानं विना स्वर्गे, कः परो गन्तुमीहते॥१०२॥ श्रुत्वेति भारी सत्याः, प्रहसितसखा शनैः। नियोज्य पाणिपाथोजं, व्याजहारेति सद्विरः ॥१०३॥स्वामिनि ! स्वस्ति ते भूयान्मा चिरं दुर्मना भव। गतस्ते विरहोत्तापः, पूर्वकर्मविजृम्भितः॥१०४॥ चिरात्त्वयि समुत्कण्ठः, स्वामिश्रीपवनञ्जयः। आगतः सोऽद्य ते द्वारि, वर्धापनमिदं तव ॥ १०५॥ प्रहसितसखा चाहं, तस्यैव तव सन्निधौ । वसन्त इव कामस्य, चाऽऽगतोऽस्मि विभावय ॥१०६ ॥ मत्पृष्ठानुगतः स्वामी, छायेव तव मानिनि!। विद्यते
॥१९॥