________________
श्रीजैन कथासंग्रहः
॥श्रीअञ्जनासुन्दरीचरित्रम् ॥
॥१८॥
निवेद्यते ॥ ८२॥ श्रुत्वेति प्रहसितः प्राह, चिरेणापि सखे त्वया। स्मृताऽसौ वियोगात्ता, साधु साधु कुलोत्तम ! ॥ ८३ ॥ जीविताऽस्ति नवा बाला, सारसीव वियोगिनी । जीविताऽपि भवेद्वाऽसौ, त्वत्समागमवाञ्छया॥८४ ॥ आश्वासनमतस्तस्याः, कर्तव्यमुचितं तव। तत्र गत्वा च तां सद्यः, प्रीणय मधुरोक्तिभिः॥८५॥ तदाज्ञामुररीकृत्य, पुनःस्वस्वार्थसिद्धये। आगन्तव्यं त्वया मित्र ! गच्छ स्वस्त्यस्तु ते सखे ॥ ८६ ॥ हितशिक्षाप्रदं मित्रं, विवेकी पवनञ्जयः । नीत्वा सहैव चोडीय, जगाम तत्र सत्वरम् ॥८७॥ ....
अञ्जनासुन्दरीसौध-रम्यद्वारि स्वयं स्थितः। प्रहसितसखा चैकः, प्राविशत्तद्गृहान्तरम् ॥ ८॥ अञ्जना सा तदा तल्पे, मत्सीव विरले जले। वियोगाग्निज्वलद्गात्री, भृशमुद्वेजिताऽभवत् ॥ ८९ ॥ ज्योत्स्नयाऽपि विधोस्तप्ता, हिमेनेव मृणालिनी। आसीत्सा विरहो मन्ये, यमराजसहोदरः ॥ १०॥ हृदन्तस्तापतस्तस्या, हारमुक्ताफलान्यपि । अत्रुटयन् कुन्तलश्रेणी-वासेन प्राचलन्मुहुः ॥ ११ ॥ असह्यवेदनातोऽस्याः, प्रक्षिपद्भुजयोरपि । काचवत्स्फुटिताः शीघ्रं, सत्मणिवलया अपि ॥१२॥ वसन्ततिलका नाम्नी, सखी तस्या वचः षटुः । सदृष्टान्तमदाद्धैर्य, व्यसने यत्सुधायते ॥ ९३॥
Sidded.
॥१८॥