SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीअञ्जनासुन्दरीचरित्रम् ॥ ॥१७॥ विरहेणैकाञ्चक्रवाकी ददर्श च ॥ ६९.॥ सरो रम्यं पयः शीत-मत्तुं मृणालनालिकाः ॥ स्वच्छो वायुस्तथाप्येषा, दुःखिनीव विभाव्यते ॥ ७० ॥ मुखाग्रस्थितमार्णाल-लतामपि नखादति । शीतेनापि जलेनालं, परितप्तेव दृश्यते ॥७१ ॥ वह्निज्वालोपमामेवं, मन्यते चन्द्रचन्द्रिकाम् । करुणार्तस्वरेणैषा, रोरुदीति परं भृशम् ॥ २॥ इत्थं तां पक्षिणी वीक्ष्य, विलुठन्तीमितस्ततः । दध्यो प्रभञ्जनो हन्त ! वियोगिन्या हि का दशा?॥७३॥ चक्रवाक्य इमा घस्रे, रमन्ते पतिभिः सह । रजनीविरहं किन्तु, सहन्ते न दवोपमम् ॥ ४ ॥ कान्तानां विरहो मन्ये, कामिनीनां हि दुःसहः ।.येन ताः परसौख्यानि, त्यजन्ति चासुभिः क्षणम् ।। ७५ ॥ क्रूरोऽहं विदयो मूढो, येन सा वरवर्णिनी । उद्वाहदिनतस्त्यक्ता, गणितान परस्त्रीवत् ॥७६ ॥ अत्राऽऽगमनवेलायामपि सा चरणाऽऽश्रिता। आश्वासिता न वा चोक्ता, प्रीतिगर्भवचोऽमृतः ॥ ७७॥ मत्समागमजं सौख्यं, यया किञ्चिन्न चेक्षितम् । पर्वतोपमदुःखौघैः, पीडिता या च मूलतः॥७८॥ अञ्जने! का दशा तेऽभूत्कान्तापमानदुःखिते!। अविवेकपदारूढं, धिग् धिक् त्वां पवनञ्जय!॥७९॥मदपमानदुःखेन, खेदिता सा चिरं सती। प्राणान्-त्यक्ष्यति तद्धत्या-जातपापेन का गतिः ? ॥८०॥ विचार्येति मनोभावः, पवनेन स्वकोऽखिलः। प्रहसितोत्तममित्राय, न्यगादि प्रश्रयोक्तिना ॥ ८१ ॥ मित्रं विना यतः कश्चिन्नापरो हृद्यचिन्तकः। ततः सुखं तथा दुखं, मित्रस्यैव *-*-*-*-*-*-*-*-*-*-*-*-* ॥१७॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy