________________
श्रीजैन कथासंग्रहः
*
॥श्रीअञ्जनासुन्दरीचरित्रम् ॥
॥१६॥
! कान्त ! कुलद्योतिन् ! प्राणेश्वर ! दयानिधे!, सम्भावयसि सर्वास्त्वं, मधुरोक्तिप्रसादतः ॥५६॥ भुक्तिस्थितिप्रियाऽऽलापै-रितरैश्चारुचेष्टितैः । प्रसन्नास्यः सदा स्वामिन्, रञ्जयसि निजाऽऽश्रितान् ॥५७॥ उद्वाहदिनमारभ्य, चाद्यावधि परं प्रभो ! । गणिता न मनागेषा, मूलनष्टमनोरथा ॥ ५८ ॥ अपराधं न पश्यामि, येन त्वं मयि चोन्मनाः । मोदयसे न वाचाऽपि, किम्परैः सुखसाधनैः ॥ ५९॥ कुर्वे तथाऽपि विज्ञप्तिं, त्वत्क्रमध्यानयोगिनी। नाथम्विना परः कोऽस्ति, सतीनां दुःखभेदकः॥ ६०॥ विस्मर्तव्या कदा नैषा, विजयस्व रणे रिपून् । शिवास्ते सन्तु पन्थानस्त्वरा देहि च दर्शनम् ॥ ६१॥ उक्त्वेति हार्दिकं नम्रा, विरराम मनीषिणी। प्लावयित्वा क्षितिं विश्वङ्, मेघधारेव सुन्दरी॥१२॥ विनयगर्भवाक्यानि, वदन्तीमपि तां सतीम् । तिरस्कृत्य ययौ मक्षु, विजयाय सदागतिः ।। ६३॥ गणयन्ति न वा कान्तां, भूर्भुव: स्व:श्रियं तथा । मानिनो मान एवास्ति, तेषामुत्तमभूषणम् ।। ६४ ॥ स्वामिनाथापमानाऽसि, जर्जरितकलेवरा। कथमपि महाधीरा, चान्तर्गृहमजीगमत्॥६५॥ शिथिलाङ्गीजातकम्पा, दैवहीनाऽरमा सदा॥ सद्यो भिन्ननदीकूल-मिवैषां न्यपतद्भुवि॥६६॥ इत उड्डीय जन्येहः, सरो मानसमुज्ज्वलम् ।। पयौ वैरिव्रजध्वेसं, सूचयन्निव मारुतः ॥ ६७ ॥ प्रदोष समये तत्र, स्वविद्यायाः प्रभावतः ॥ विकुळ भवनं दिव्यं, निवासञ्चकृवान् सुखम्॥१८॥ तत्र तल्पे निषण्णोऽसौ, दृष्टिं दिक्षु नियोजयत्। पीडितां
॥१६॥