________________
श्रीजैन कथासंग्रहः
॥५॥
मुनिना, कुत आयातौ युवामितकि पृष्टौ ॥ प्राकाशयतां स्वाशय मुक्त्वा निजवृत्तमखिलं तौ ॥ ४० ॥ तत इत्यूचे श्रमणो, विलीयते देह एव 'भृगुपातात् । न तु पातकं ततोऽसौ, न युज्यते दक्षयोर्युवयोः ॥ ४१ ॥ दुःखानां बीजमघं', तपसैव क्षीयते न मरणेन ॥ तदिदं हेयं देहं सफलीक्रियतां तपश्चरणैः ॥४२ ॥ ग्लानाविव वैद्यवच स्तत्साधुवचः प्रपद्य तौ सद्यः ॥ प्राव्रजतां तत्पार्श्वे, क्रमादभूतां च गीतार्थों ॥ ४३ ॥ षष्ठाष्टमादितपसा, कृशयन्तौ विग्रहं समं पापैः ॥ मूर्ती तपः शमाविव, सममेव विजहतुर्भुवि तौ ॥ ४४ ॥ विहरन्तौ तौ जग्मतुरन्येद्युर्हस्तिनापुरे नगरे । बहिरुद्यानस्थौ तत्र, चेरतुर्दुश्चरं च तपः ॥४५॥ सम्भूतमुनिर्नगरे, मासक्षपणस्य पारणेऽन्येद्युः ॥ भिक्षार्थमटन् दद्दशे, दुरात्मना नमुचिसचिवेन ॥४६ ॥ मातङ्गसुतः सोऽयं, मम वृत्तं वक्ष्यतीति साशङ्कः ॥ निष्काश्यतां पुरादय-मित्यूचे निजभटान्नमुचिः ॥ ४७ ॥ यमदूतैरिव चण्डै -स्तैर्लकुटादिप्रहारदानपरैः ।। 'विधुरीकृतोऽथ साधु- द्रुतं न्यवर्तत ततः स्थानात् ॥ ४८ ॥ निर्गच्छन्नपि स मुनि-र्नमुचिभटैर्न मुमुचे यदाऽपदयैः ' ॥ शान्तोऽपि चुकोप तदा, स्यादुष्णं जलमपि नलात् ॥ ४९ ॥ तद्वदनान्निरगादथ, धूमस्तोमः समन्ततः प्रसरन् ॥ तदनु च तेजोलेश्या, ज्वालापटलैर्नभः स्पृशती ।। ५० ।। तद्वीक्ष्य सभयकौतुक मेयुः पौरा मुनिं प्रसादयितुम् ।।
१. झम्पापातात् । २. पापम् । ३. त्याज्यम् । ४. शरीरम् । ५. विह्वलीकृतः । ६. निर्दयैः ।
॥ श्रीचित्रसम्भूत चरित्रम् ॥
॥५॥