SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीचित्रसम्भूत चरित्रम् ॥ ॥४॥ कौमुदीमहेऽन्येधुः। उल्लङ्घ्य नृपतिवचनं, प्राविशतामजितकरणी' तौ॥२९॥ विहितावगुण्ठनी' तौ, छन्नमटन्ती महं च पश्यन्तौ।। क्रोष्टरवैः क्रोष्टारा-विव गानोत्कौ प्रजागीतैः ॥३०॥ अवगणितभूपभीति, अगायतामतिमनोहरं गीतम् ॥ तच्च निशम्य जनास्ती, परिववर्मक्षिका मधुवत् ॥ ३१॥ (युग्मम्) कावेताविति लोकै-आतुं कृष्टावगुण्ठनावथ तौ॥ उपलक्षितौ नृपाज्ञा-विलोपकत्वादृशं निहतौ ॥३२॥ नश्यन्ती पश्यन्ती, दीनं भयविह्वलौ स्खलत्पादौ ॥ लोकैश हन्यमानौ, कथमपि तौ निर्गतौ पुर्याः ॥३३॥ गम्भीरोद्यानं च प्राप्ती, ताविति मिथो व्यचिन्तयताम् ॥ धिग् नौ कुलदोषहतान्, रूपकलाकौशलादिगुणान् ॥ ३४ ॥धातव इव क्षयरुजा, दोषेणानेन दूषिता हि गुणाः ।। जाता विपत्तये नौ, पत्तय इव भेदिता द्विषता' ॥ ३५ ॥ व्यसनैरिव नौ व्यसनं, जज्ञे कुलदोषदूषितैर्हि गुणैः ॥ स च सहचारी वपुष-स्तत्त्याज्यं रज इवेदमपि ॥३६॥ ध्यात्वेति मर्तुकामी, यान्तौ प्रति दक्षिणामुभावपि तौ ॥ दूरं गतौ महीधर-मपश्यतामेकमतितुङ्गम् ॥ ३७॥ तं चाऽरोहन्तौ तौ, भृगुपातचिकीर्षया श्रमणमेकम् ॥ ध्यानस्थममानगुणं, प्रेक्ष्य प्रोच्चैर्मुदमधत्ताम् ॥ ३८ ॥ छायातरुमिव पथिको, तं प्राप्यापगतसकलसन्तापौ॥ तावनमतां वमन्तौ, प्राग् दुःखमिवाश्रुजलदम्भात् ॥ ३९ ॥ ध्यानं समाप्य १ अजितेन्द्रियो । २ वखणाच्छादितमुखी।३ शत्रुणा । ४ पर्वतम् ॥४॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy