SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः और ॥श्रीअञ्जनासुन्दरीचरित्रम्॥ ॥१४॥ हरिजयी।कासी पाशी महाव्याधो, अवन्नित्वं च निर्ययो॥२९॥आगत्य वारुणी विश्वग, रुरोध नगरी बली। तीरस्थभूधरं सद्यो, वेलेव कूलिनीपतेः॥३०॥ लोकपालः पयोनाधो, वरुणोऽपि रणोत्सुकः। जन्यदुन्दुभिनादेन, बोधयन्निब रावणम् ।। ३१ ॥ अरुणाक्षो महाशक्ति रिमातङ्गकेसरी । राजीवपुण्डरीकाद्यै-निजपुत्रैः समन्वितः ।। ३२॥ चतुरङ्या पुरान्मानी, प्रोल्लसद्रोमकञ्चुकः । निर्ययो घोरसङ्ग्रामो, जज्ञे चोभयसैन्ययोः ॥ ३३॥॥ चतुर्भिर्विशेपकम् ॥महत्यस्मिन् रणे धीराः, पाशिपुत्रा नियुध्य च । खरदूषणको बद्ध्वा , निन्युश्च तत्पुरं प्रति ॥ ३४ ॥ पराजये तयोर्जाते, खरदूषणरक्षसोः । पृतना कोणपानां सा, बभज सर्वतोमुखी ॥ ३५॥ वरुणोऽपि महायोधा, धन्यम्मन्य इवाययौ। नगरौं स्वां यशो दिक्षु, स्थापयन्निव वासवः ॥ ३६॥ ह्रीम्लानवदनाम्भोजो, भग्नगर्वमहीरुहः। शोच्यां दशां दशग्रीवः, प्रापाहिरिव मन्त्रितः॥३७॥ प्रतिविद्याधरेशान् स, पुन राहातुमात्मनः । प्रेषयामास सद्भूतान्, माञ्च त्वां प्रति भो नृप! ॥ ३८ ॥ इत्थं प्रहादभूपाल, उक्तिं लेखहरस्य च । निशम्य दशवक्त्रस्य, साहाय्ये सजितोऽभवत् ॥ ३९॥ यावत्तावन्महाधीरः, पवनः समरप्रियः । आगत्य प्राञ्जलिः प्राह, पितरं प्रश्रयाञ्चितः॥४०॥ सूर्योदयाद्यथा पूर्वम-रुणो ध्वान्तनाशकः॥ तथाऽहं समरे तात! त्वां विनाऽपि रिपुक्षयी॥ ४१ ॥ प्रजाकल्प ! पितः ! सद, विचिन्तः सुखमास्यताम् । पूरयिष्ये दशास्यस्य, रणे NAL ॥१४॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy