SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः और ॥श्रीअञ्जनासुन्दरीचरित्रम्॥ ॥१४॥ हरिजयी।कासी पाशी महाव्याधो, अवन्नित्वं च निर्ययो॥२९॥आगत्य वारुणी विश्वग, रुरोध नगरी बली। तीरस्थभूधरं सद्यो, वेलेव कूलिनीपतेः॥३०॥ लोकपालः पयोनाधो, वरुणोऽपि रणोत्सुकः। जन्यदुन्दुभिनादेन, बोधयन्निब रावणम् ।। ३१ ॥ अरुणाक्षो महाशक्ति रिमातङ्गकेसरी । राजीवपुण्डरीकाद्यै-निजपुत्रैः समन्वितः ।। ३२॥ चतुरङ्या पुरान्मानी, प्रोल्लसद्रोमकञ्चुकः । निर्ययो घोरसङ्ग्रामो, जज्ञे चोभयसैन्ययोः ॥ ३३॥॥ चतुर्भिर्विशेपकम् ॥महत्यस्मिन् रणे धीराः, पाशिपुत्रा नियुध्य च । खरदूषणको बद्ध्वा , निन्युश्च तत्पुरं प्रति ॥ ३४ ॥ पराजये तयोर्जाते, खरदूषणरक्षसोः । पृतना कोणपानां सा, बभज सर्वतोमुखी ॥ ३५॥ वरुणोऽपि महायोधा, धन्यम्मन्य इवाययौ। नगरौं स्वां यशो दिक्षु, स्थापयन्निव वासवः ॥ ३६॥ ह्रीम्लानवदनाम्भोजो, भग्नगर्वमहीरुहः। शोच्यां दशां दशग्रीवः, प्रापाहिरिव मन्त्रितः॥३७॥ प्रतिविद्याधरेशान् स, पुन राहातुमात्मनः । प्रेषयामास सद्भूतान्, माञ्च त्वां प्रति भो नृप! ॥ ३८ ॥ इत्थं प्रहादभूपाल, उक्तिं लेखहरस्य च । निशम्य दशवक्त्रस्य, साहाय्ये सजितोऽभवत् ॥ ३९॥ यावत्तावन्महाधीरः, पवनः समरप्रियः । आगत्य प्राञ्जलिः प्राह, पितरं प्रश्रयाञ्चितः॥४०॥ सूर्योदयाद्यथा पूर्वम-रुणो ध्वान्तनाशकः॥ तथाऽहं समरे तात! त्वां विनाऽपि रिपुक्षयी॥ ४१ ॥ प्रजाकल्प ! पितः ! सद, विचिन्तः सुखमास्यताम् । पूरयिष्ये दशास्यस्य, रणे NAL ॥१४॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy