SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीअंजना - सुन्दरीचरित्रम् ॥ ॥१२॥ कान्तेन पूर्वन्ते, कासान्ते नवसङ्गमे । क्षीयन्ते क्षीणपुण्यानां लता इव च शैशिरे॥३॥ तन्मनोरथपूर्तिस्तु दूरमस्तु, परं बत। दर्शनेनापि सा साध्वी, कान्तस्य वञ्चिताऽभवत्॥४॥ निजापमानशल्येन, विद्धोऽसौ पवनञ्जयः । सस्मार न च वाचाऽपि, तां सती तत्पदालिनीम् ॥५॥ विना तमश्रुधाराभिर्ध्वान्तोपममुखन्धरा । विगतेन्दुनिशेवैषा शुशुभे न मनागपि ॥ ६॥ स्वल्पावधीरणाऽप्यत्र कष्टाय महते भवेत् । तारुण्ये सह कान्तेन, विप्रयोगस्य का कथा ?॥७॥धवापमानदुःखेन, तरुणी सा कृशोदरी । स्थले मत्सीव तल्पेऽपि, पर्यलुम्यत् निर्भरम्॥८॥पार्श्वद्वी विवृत्यैवं, कुरुरीव वियोगिनी। तत्तापदग्धगात्रेयं, पर्यऽपि बतातपत्॥९॥रम्योज्ज्वलमहासौधस्थिताया अपि रात्रयः । जज्ञिरेऽब्दोपमास्तस्या, मुञ्चन्त्याः श्वाससन्ततिम् ॥१०॥ अन्तर्जानुमुखाब्जेय-मनन्यचित्तशालिनी। ध्यायन्ती केवलं नाथ-मनैषीद्वासरं ह्यपि॥११॥ एकतो मदनागार-यौवनं तापदायकम् । परतः स्वामिनोऽप्रीति-हाहा कष्टपरम्परा॥१२॥ कलेव शशिनः श्यामे, क्षीणाङ्गी सा व्यजायत । अपश्यन्ती परोपायं, मौनमेवाश्रयत्तदा ॥ १३ ॥ आह्वयामासुरालापैः, सख्यस्तां मधुरैर्मुहुः । तथाऽपि नात्यजन्मौनं, हेमन्त यथा पिकः ॥ १४ ॥ तद्दःखदुःखिता जाताः, सख्यस्ता निखिला अपि ॥ शिरसि वेदनाभाजि, सत्यङ्गानाञ्च का कथा ? ॥१५॥ इत्थं काल: कियानस्या, थयी यौगोपमां दधत् । प्रायः कष्टस्थितिस्थानां, क्षणोऽपि वत्सरायते ॥१२॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy