________________
श्रीजैन
कथासंग्रहः
॥श्रीअंजना - सुन्दरीचरित्रम् ॥
॥१२॥
कान्तेन पूर्वन्ते, कासान्ते नवसङ्गमे । क्षीयन्ते क्षीणपुण्यानां लता इव च शैशिरे॥३॥ तन्मनोरथपूर्तिस्तु दूरमस्तु, परं बत। दर्शनेनापि सा साध्वी, कान्तस्य वञ्चिताऽभवत्॥४॥ निजापमानशल्येन, विद्धोऽसौ पवनञ्जयः । सस्मार न च वाचाऽपि, तां सती तत्पदालिनीम् ॥५॥ विना तमश्रुधाराभिर्ध्वान्तोपममुखन्धरा । विगतेन्दुनिशेवैषा शुशुभे न मनागपि ॥ ६॥ स्वल्पावधीरणाऽप्यत्र कष्टाय महते भवेत् । तारुण्ये सह कान्तेन, विप्रयोगस्य का कथा ?॥७॥धवापमानदुःखेन, तरुणी सा कृशोदरी । स्थले मत्सीव तल्पेऽपि, पर्यलुम्यत् निर्भरम्॥८॥पार्श्वद्वी विवृत्यैवं, कुरुरीव वियोगिनी। तत्तापदग्धगात्रेयं, पर्यऽपि बतातपत्॥९॥रम्योज्ज्वलमहासौधस्थिताया अपि रात्रयः । जज्ञिरेऽब्दोपमास्तस्या, मुञ्चन्त्याः श्वाससन्ततिम् ॥१०॥ अन्तर्जानुमुखाब्जेय-मनन्यचित्तशालिनी। ध्यायन्ती केवलं नाथ-मनैषीद्वासरं ह्यपि॥११॥ एकतो मदनागार-यौवनं तापदायकम् । परतः स्वामिनोऽप्रीति-हाहा कष्टपरम्परा॥१२॥ कलेव शशिनः श्यामे, क्षीणाङ्गी सा व्यजायत । अपश्यन्ती परोपायं, मौनमेवाश्रयत्तदा ॥ १३ ॥ आह्वयामासुरालापैः, सख्यस्तां मधुरैर्मुहुः । तथाऽपि नात्यजन्मौनं, हेमन्त यथा पिकः ॥ १४ ॥ तद्दःखदुःखिता जाताः, सख्यस्ता निखिला अपि ॥ शिरसि वेदनाभाजि, सत्यङ्गानाञ्च का कथा ? ॥१५॥ इत्थं काल: कियानस्या, थयी यौगोपमां दधत् । प्रायः कष्टस्थितिस्थानां, क्षणोऽपि वत्सरायते
॥१२॥