________________
श्रीजैन कथासंग्रहः
11011
॥ ४७ ॥ नक्तं तंत्र व्रजिष्यावः, पराऽलक्षितविग्रहौ । उत्पश्यावः सुखाऽऽसीनां, सरोजवदनां सतीम् ॥ ४८ ॥ मित्रामृतवचः पानक्षीणतापलसत्तनुः। ध्यायन् तामेव तस्थौ स, उपासक इवेष्टकम् ।। ४९ ।। आगतायां विभावर्या पवनः सह तेन च । उड्डीय हृदि तां ध्यात्वा तदाऽऽगारमुपागमत् ।। ५० ।। आसीत्सा सप्तम्यां भूम्यां विशालायां द्विजानना । गत्वाऽपश्यच्च तां तत्र, ससखश्च्छन्नचारवत् ।। ५१ ।। अञ्जनाऽऽननलावण्यं, निपीयासौ मुहुर्मुहुः । न तृप्तिमाप वर्षांयां, केकीव जलदध्वनिम् ॥५२॥ वसन्ततिलका तस्या, आसीदेका सहचरी । अपरा मिश्रका नाम्नी, नामोपमगुणोज्ज्वला ॥५३॥ वसन्ततिलका प्राह, दिष्ट्या वर्द्धस्व भोः सखि ! पवनञ्जयकौमारो, यत्त्वाड्डामयते स्वयम् ॥ ५४ ॥ मध्य एव परोवाच, वाचालाऽतिपटीयसी । विद्युत्प्रभवरं हित्वा कोऽपरो वर्ण्यते त्वया ।। ५५ ।। सर्वदः क्व सुखुः स, करीरः क्व च निर्दलः । वियन्मणेः पुरश्चैवं, रिङ्गणस्य च का कथा ॥ ५६ ॥ विद्यारूपगुणश्रीणां निधानमवनी सकः । सखीयोग्यो वरः सोऽतः सृतं सत्यमपरेण तु ॥ ५७ ॥ निःसारां मिश्रकोक्तिं सा, खण्डयन्तीव चेर्ष्यया । प्राहेति नितमां मुग्धा, मुग्धेऽसि फल्गुभाषिणि ! ॥ ५८ ॥ अविचारवच: सारः, सुन्दरोऽपि मुधायते । त्रुटयन्मूलशिफः शाखी, सुच्छायः किमु सेव्यते ? ॥ ५९ ॥ शीतला सघना छायाऽपरार्द्धस्य न सम्मता । अचिरक्षयहेतुत्वाद्दर्शे चेन्दुकला यथा ।। ६० ।। श्रुता किं न च ते पूर्व,
॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥
11011