SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीअञ्जनासुन्दरीचरित्रम् ॥ ॥६॥ शोभितान् विश्चतस्तथा ॥ ३४॥ मित्रं प्रहसितं तत्र, कालवित्पवनञ्जयः । विश्रम्भालयमापृच्छदात्मानमिव चापरम् ॥ ३५॥ अञ्जनासुन्दरी मित्र! कीदृशी किमु वीक्षिता?। सखायमन्तरा चान्यः, कः परस्तथ्यमावदेत् ॥ ३६ ॥ ईषद्धास्यप्रसन्नाऽऽस्यः, प्रसितः प्राह भोः ! सखे। रम्भादिस्वःपटुस्त्रीणां गणना का च तत्पुरः ? ॥ ३७॥ नागगन्धर्वयक्षाणां, कुमार्यस्तज्जिता हताः । मन्ये निःश्वासधूमेन, मलिनाऽऽस्याः प्रतिक्षणम् ॥३८॥ निरुपमामतस्तस्या, रूपलावण्यसन्ततिम् । मुहुर्दृष्ट्वाऽपि को वाग्मी, वर्णयेद्वाङ्मनःपराम् ? ॥३९॥ निशम्य तद्रिः स्वस्थः, पीयूषरसगर्भिणी: । पवनञ्जयकौमारो, हियेति मन्दमावदत् ॥ ४०॥ हन्त हा मित्र ! दूरेऽस्ति, पाणीपीडनवासरः । अद्यैव द्रष्टुमिच्छामि, बालां तां हृत्सरःस्थिताम् ॥४१॥ न चेतो रज्यते क्वाऽपि तां विना मित्र ! साम्प्रतम् । ऋते सारसिकां कान्तां, सारसः किमु जीवति ॥ ४२ ॥ श्रुताइष्टप्रियाप्रेम - रज्जुबद्धकजक्रमः । विश्वं भो मन्यते शून्यं शून्यवादीव तल्लयः॥४३॥ अतः कः सरलः पन्था, दर्शनेऽस्या रमामणेः । अपनेतुं परं दुःखं, मित्रस्य नापरः प्रभुः ॥४४॥ तल्लावण्यसुधापानाऽऽसक्तचित्तस्य मेऽधुना । क्षणं घम्रति घस्रोऽपि, मित्र ! मासायते ध्रुवम् ॥४५॥ दिनानि त्रीणि हा ! कष्ट, त्रियुगा इव भोः सखे!। कथं यास्यन्ति धिक् कामं, यत्कृते खिद्यते जगत् ॥ ४६॥ कन्दर्पबाणविद्धाङ्गं, प्रियाप्रेमविसंस्थुलम् । प्रहसित उवाचेत्थं, मित्रं मित्र ! स्थिरो भव । ॥६॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy