SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीपालचरित्रम्। ॥४२॥ प्रसादः सिद्धचक्रस्य परिस्फुरति निश्चितम् ॥ ४७१॥ यत् श्रीमत्या सखीभिश्च कृता तदनुमोदना। तेन पुण्येन ते क्षुल्लपट्टदेव्योऽभवन्त्रिमाः॥ ४२ ॥ धर्मप्रशंसया सप्तशतसङ्ख्यैश्च सेवकः । यत्कर्मोपार्जि तेनैते सर्वे जाता निरामयाः॥७३॥ सिंहजीवस्त्वहं मासमेकं संपाल्य संयमम्। जातोऽस्म्यजितसेनाख्यः शैशवे तव राज्यहृत् ॥ ४७४ ॥ प्राग्भवाभ्यासयोगेन चारित्रमिह चाप्तवान् । सोऽहं प्राप्तावधिज्ञानो नरेशाऽत्र समागमम् ॥ ४७५ ॥ एवं च यादृशं येन कृतं कर्म शुभाशुभम् । अवश्यमेव भोक्तव्यं तत्तेन खलु तादृशम् ॥ ४७६ ॥ इत्याकर्ण्य कुमारोऽपि भावविस्मेरमानसः । प्राह संयमदानेन विभो! तारय मां भवात् ।। ४७७॥ अथोवाच मुनिर्भूपमुद यादोगकर्मणः । भवेऽस्मिन्नास्ति चारित्रं तव पुण्यवतां वर! ॥४७८॥ किन्तु स्मरंस्त्वमेतान्यहंदादीनि पदान्यलम् । सम्प्राप्य नवमं स्वर्ग नवसंख्यान् भवानथ ॥४७९।। उत्तरोत्तरसौख्यान्यां प्राप्य स्वःसन्तृसंपदम् । सिद्धिं च प्राप्स्यसीत्युक्त्वा विजहार मुनीश्वरः ॥ ४८० ॥ श्रीपालोऽप्यवनीपाल: प्रियाभिर्नवभिर्युतः । सिद्धचक्रं समाराध्य विधिनोद्यापनं व्यधात् ॥ ४८१ ॥ अथो भुवनपालाद्याः सुतास्तस्य नवाऽभवन् । राज्ये नव सहस्राणि तस्याऽऽसन् रथहस्तिनाम् ॥ ४८२ ॥ नवलक्षास्तुरङ्गाणां पत्तीनां नवकोटयः । नववर्षशतान्येवं न्यायाद्राज्यमपालयत् ॥ ४८३ ॥ संस्थाप्य राज्ये भुवनपालं नवपी स्मरन् । समाधिमृत्युयोगेन नवमं कल्पमाप्तवान् ॥ ४८४ ॥ स्नुषाभिनवभिर्युक्ता ॥४२॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy