________________
श्रीजैन कथासंग्रहः
श्रीपालचरित्रम्।
-॥४३॥
समये तजनन्यपि । आयुःक्षयेण तत्रैव देवत्वेनोदपद्यत ॥ ४८५ ॥ ततश्च्युत्वा चतुष्कृत्वा प्राप्य सत्त्वाधिका अमी। देवत्वं मानुषत्वं च सम्प्राप्स्यन्ति शिवं क्रमात् ॥ ४८६ ॥ इत्येवं मगधेशस्य पुरः श्रीगौतमो विभुः । आख्याय विरतो यावत् तावत्कोऽपि नरेश्वरम् ॥ ४८७ ।। सद्यो वर्धापयामास श्रीवीराऽऽगमनेन वै। श्रीश्रेणिकनृपोऽप्यस्य तुष्टिदानं व्यतीतरत् ॥४८८॥ इति श्रीवीरनाथोऽपि पुनान: पृथ्वीतलम् । सुरासुरैः सेव्यमानस्तदुद्यानं व्यभूषयत् ।। ४८९ ।। समवसृतिमध्येऽथ रत्नसिंहासनस्थितः । व्यधत्त वीरनाथोऽपि देशनां क्लेशनाशिनीम् ॥ ४९० ।। ज्ञात्वा नृपस्य तं भावमर्हदादिपदावलीम् । श्रीवीरोऽपि समाचख्यौ भव्यानुग्रहहेतवे॥ ४९१ ॥ श्रीसिद्धचक्रमाहात्म्यविषयां धर्मदेशनाम् । श्रुत्वा के के जना नाऽसंस्तदाराधनतत्पराः ? ॥ ४९२ ॥ एषा नवपदध्यानवती श्रीपालसंकथा। शृण्वतां गदतां नृणां करोतु सुखसन्ततिम्॥४९३ ॥ राकापक्षवलक्षपक्षविमला: सवृत्तपुण्योज्ज्वला:, शश्वच्छास्त्रसुधासमुद्रलहरीनिस्तन्द्रचन्द्रत्विषः। सूरिश्रीगुणसागराख्यसुगुरुप्राप्तप्रतिष्ठोदयाः, श्रीमन्तोऽत्रगुणात्समुद्रगुरवो राजन्ति तेज:श्रिया॥४९४॥ तत्पादद्वितयप्रसादवशतो वाग्देवताध्यानतो, दृब्धं पण्डितसत्यराजगणिना स्वात्मस्मृतिहेतवे। यावच्चन्द्रगभस्तिमेरुधरणीपाथोधराम्भोधयस्तावनन्दतु वाच्यमानमृषिभिः श्रीपालवृत्तं ह्यदः ।। ४९५ ॥ श्रीविक्रमाद्विश्वतिथि (१५१४) प्रमिते वत्सरे किल। प्राकृताब्धेः समुद्धत्यानुष्टुब्बन्धेन
॥४
॥