________________
श्रीजैन
श्रीपालचरित्रम् ।
कथासंग्रहः
॥४
॥
इति राजीवचः श्रुत्वा प्रबुद्धोऽथ धराधवः । निरवर्तिष्ट साधूपघातपातकपकृतः॥ ४५८॥ पुनः सञ्जातवैरोऽयं कचिद् दृष्टा मुनिं जगी। रेरे निर्वास्यतामेष मातङ्गो मत्पुरान्तरात् ॥ ४५९॥ इत्यादिष्टा भटा यावन्मुनि निर्वासयन्ति तम् । तावनिर्भर्त्सयामास दृष्ट्वा तत् श्रीमती नृपम्॥४६०॥अथ साऽनुशयो भूपोऽप्यानाय्य तमृर्षि गृहे। निजागः क्षामयामास प्रणिपातपुरस्सरम्॥४६१॥श्रीमत्याऽथ मुनिः पृष्टो विभो! अज्ञानभावतः। कृत्वोपसर्ग साधूनां राज्ञा यदुष्कृतं कृतम्॥४६२॥ तत्यापशान्तये स्वामिन्नुपायं ब्रूहि कञ्चन। कृतेन येन भूपोऽयं सद्यश्छुटति पातकात्॥४६३॥ मुनिर्जगाद श्रीसिद्धचक्राराधनमुत्तमम् । नृपः करोतु तत्सद्यः पातकाद्विप्रमुच्यते ॥ ४६४ ॥ ततस्तपोविधानादिविधिपूजापुरस्सरम् । श्रीमत्या सहितः सिद्धचक्रमाराधयन्नृपः॥ ४६५॥ अन्वमोदि तपो राजया वयस्याभिस्तदाऽष्टभिः । प्रशंसितं क्षणं सप्तशतसंङ्ख्यैश सेवकः॥४६६ ॥ ते चान्यदा नृपाऽदेशात् सिंहनामकभूभुजा। समं युवा मृताः सप्तशतानि कुष्ठिनोऽभवन् ॥ ४६७ ॥ साधूपसर्गपापोत्थोऽमीषां कुष्ठामयोऽभवत् । श्रीकान्तजीवस्तत्पुण्यप्रभावात्त्वं नृपोऽभवः ॥ ४६८ ॥ श्रीमत्या अपि जीवोऽयं जाता मदनसुन्दरी। जैनधर्मप्रभावेण सा राज्ञी च तसवाऽभवत् ॥ ४६९ ॥ यत्त्वया मुनिवर्यस्य विहिताऽऽशातना तदा। कुष्ठित्वं वार्द्धिपतनं मातङ्गत्वं ततोऽभवत् ॥ ४०॥ यच्चैव ऋद्धिविस्तारस्तवाऽसीदखिलोऽप्यसौ।।
॥४१॥