________________
श्रीजैन कथासंग्रहः
॥४०॥
हरिणा नराणां को लोकमाराधयितुं समर्थः ? ॥ ४४६ ॥ - इंतूनं परप्पाने अप्पाणं जे कुणंति सप्पाणं । अप्पाणं दिवसाणं कए स नासेइ अप्पाणं ॥ ४४७ ॥ इति राज्ञीवचोऽम्भोभिरप्यभिन्नमना नृपः । मृगयामगमत्सप्तशतवण्ठैः सहाऽन्यदा ॥ ४४८ ॥ वीक्ष्य धर्मध्वजकरं मुनिमेकं नृपोऽवदत् । कोऽप्येष चामरकर : कुष्ठिराजोऽत्र दृश्यते ।। ४४९ ।। नृपतुष्ट्यै अथोलुण्ठैर्वण्ठैर्दुष्टचेष्टितैः । उपद्रुतो मुनीन्द्रोऽसौ क्षमावाँलेष्टुयष्टिभिः ॥ ४५० ।। यथा यथा ताड्यतेऽसौ मुनिरस्य तथा तथा । प्रावर्द्धिष्ट रसः शान्तो हासाश्च नरेशितुः ।। ४५१ ॥ भूयोऽप्येकं मुनिं वीक्ष्य नदीकण्ठस्थितं नृपः। प्रेर्य शैवलिनीपट्टे पातयामास निष्कृपः ॥ ४५२ ।। पुनः सञ्जातकारुण्यो मुनिमाकृष्य मुक्तवान् । को वेत्ति ? प्राणिनां भावपरावृत्तिं नवां नवाम् ॥ ४५३ ।। वृत्तान्तमेनमाचख्यौ स सर्व स्त्रीपुरः स्वकम् । साऽपि तं मधुरैर्वाक्यैर्नृपतिं प्रत्यबोधयत् ।। ४५४ ।। अन्येषामपि जन्तूनां पीडनं दुःखदायकम् । किं पुनस्तन्मुनीनां ? यद्घोरश्वभ्रफलप्रदम् ।। ४५५ ।। मुनिघातो हि जन्तूनां दीर्घसंसारकारणम् । भवेच्च दुर्लभा बोधिरेवमुक्तं यदागमे ।। ४५६ ।।
चेइयदव्वविणासे इसिघाये पवयणस्स उड्डाहे। संजइचउत्थभंगे मूलग्गी बोहिलाभस्स ॥ ४५७।। परजीवं हत्वा ये जीवास्तन्मांसभक्षणेनात्मानं सबलं कुर्वन्ति, ते दुष्टा अल्पदिवसानां कृत आत्मानं नाशयन्ति ।
xxx
श्रीपालचरित्रम् ।
॥४०॥