________________
श्रीजेन कथासंग्रहः
श्रीपालचरित्रम्।
॥३९॥
मतिसागरमन्त्रीशस्तावदेत्य व्यजिज्ञपत् ॥ ४३३ ॥ बालोऽपि पितृपदे त्वं स्थापितोऽसि तदा प्रभो!। येन चोत्थापितो राज्यात् स ते शत्रुर्न संशयः ॥ ४३४ ॥ सति सामर्थ्ययोगे यः पैत्र्यं राज्यमुपेक्षते । स लोके हसनीयः स्यात् तत्पुनीहि निजां पुरीम् ॥ ४३५ ॥ अथ तन्मन्त्रिवचसा ससैन्यः स कुमारराट् । विजित्याऽजितसेनं तं चम्पाराज्यं च लब्धवान् ॥ ४३६ ॥ अथ प्रबोधमापन्नोऽजितसेननृपोऽपि सः । सच्चारित्रं समादायाऽवधिज्ञानमवाप्तवान् ॥ ४३७ ॥ अथ श्रीपालभूपोऽपि दत्त्वा तिम्रः प्रदक्षिणाः । प्रणम्य तं महाभक्त्या विज्ञप्तिमिति चातनोत् ॥ ४३८॥ भगवन् ! कर्मणा केन बाल्येऽपि मम तादृशः। देहे महामयो जातः ? कर्मणा केन शान्तवान् ? ॥ ४३९॥ स्थाने स्थाने चेदृगृद्धिं कर्मणा केन लब्धवान् ?। केन मनोऽम्बुधौ ? केनान्त्यजत्वं चाऽहमाप्नवम् ? ॥४०॥ प्रसद्य भगवन् ! सद्यः संशयं मे निराकुरु। उदिते हि सहस्त्रांशी न तमो बाधते जगत् ॥ ४४१॥ अथ प्राहाऽवधिज्ञानी श्रृणु श्रीपालभूपते !। हिरण्यपुरमस्त्यत्र श्रीकान्तस्तत्र भूधवः ॥४२॥ सत्यशीलपवित्राऽङ्गी गङ्गेव सरलाशया। श्रीमतीति प्रिया तस्य जिनधर्मकमानसा॥ ४४३॥ पापर्द्धिनिरतश्चाभूद्राजा संसर्गदोषतः । साऽन्यदा मधुरैर्वाक्यैर्भूभुजं प्रत्यबूबुधत् ॥ ४॥ यथा-वैरिणोऽपि हि मुच्यन्ते प्राणान्ते तृणभक्षणात् । सदैव च तृणाहारा हन्यन्ते पशवः कथम् ?॥५॥ तृणानि खादन्ति वसन्त्यरण्ये पिबन्ति तोयान्यपरिग्रहाश्च । तथापि वध्या
॥३
॥