________________
श्रीजैन कथासंग्रहः
श्रीपालचरित्रम् ।
॥३८॥
किहां मालव किहां शपुर किहां बब्बर किहां नह। सुरसुन्दरी नचावीर्ये पडो दैवशिर दट्ट॥४२०॥
श्रुत्वेति सर्वे साशङ्कास्तामपृच्छनिजां कथाम् । सा आख्यन्मालवेशस्य सुताऽहं सुरसुन्दरी ॥४२१॥ पितृदत्ताऽरिदमनकुमारेण समं तदा । परिणीय समागच्छमहं शपुरान्तिकम् ॥ ४२२ ॥ सुमुहूर्त्तकृते युष्मजामाता पूर्बहिः स्थितः भट्टानां परिवारस्तु स्वं स्वं सदनमाप्तवान् ॥ ४२३ ॥ अत्रान्तरे चौरधाटी पतिता बलवत्तरा। मुक्त्वा मामार्यपुत्रोऽसौ जीवं लात्वा प्रणष्टवान् ॥ ४२४ ॥ चौरद्धुत्वाऽहं विक्रीता द्वीपे बब्बरनामके । महाकालनरेशेन वरनाट्यं च शिक्षिता ॥ ४२५ ॥ तेनाऽप्यहं स्वजामाने दत्ता भूरिनटैः समम् । कुटुम्बं मिलितं मेऽद्य नृत्यन्त्यास्त्वत्पुरोऽधुना ॥ ४२६ ॥ तदा निजगुरुत्वान मदनाया विडम्बनात् । चक्रे गर्वमिदानीं तु फलं भुञ्जामि कर्मणः॥४२७॥ एकैव सा महापुण्यवतीनां धुरि कीर्त्यते। ययाऽत्मीयं कुलं शीलं सच्चरित्रैः पवित्रितम् ॥ ४२८॥ अहं पुनरधन्यानां प्रथमा कीर्तिता बुधैः । कुलशीले परित्यज्याऽभवं दुःखैकभाजनम् ॥ ४२९ ॥ अन्यच्च जिनधर्मोऽस्याः कल्पवृक्ष इवाऽफलत् । मिथ्याधर्मो मम पुनर्विषवृक्ष इवाभवत् ॥ ४३०॥ ततोऽरिदमनं भूपोऽप्याहूय सुरसुन्दरीम् । तस्मै प्रदत्तवान् सोऽपि मिथ्याधर्म त्रिधाऽत्यजत्॥४३१॥ अथ सप्तशतीसङ्ख्याः कुष्ठिनो मदनागिरा । गतरोगा भजन्ति स्म श्रीपालनृपशेखरम् ॥ ४३२ ॥ अथाऽयं पैतृकं राज्यं यावद्गन्तुमना अभूत् ।
॥३८॥