SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीपालचरित्रम्। मातुलो नृपः। जामातरं स्वं सुप्रीत आजुहाव निजं पुरम् ॥ ४०७॥ स्थित्वा तत्र कियत्कालं तत्राऽऽनाय्य निजाः प्रियाः। समातुलोऽपि श्रीपालश्चचालोजयिनी प्रति॥४०८॥आगच्छन्नन्तरा सोपारकाहनगरेशितुः । महसेननरेशस्य सुतां त्रैलोक्यसुन्दरीम्॥ ४०९ ॥ दष्टां दुष्टाहिना हारप्रभावात्समजीवयत् । नृपाग्रहेण तां तत्र पर्यणैषीत्कुमारराट् ॥ ४१० ॥ एवमष्टप्रियायुक्तः स्वमातुर्मिलनोद्यतः । सम्प्राप्य मालवं देशं निजसैन्यमवासयत् ॥ ४११ ॥ परचक्राऽऽगमं श्रुत्वा मालवेशोऽपि तद्रयात् । विवेश दुर्ग सैन्येन परितः सोऽप्यवेष्टयत् ॥ ४१२॥ (आवासीए य सिने रयणीए पढमजामसमयम्मि। हारप्पभावेण सयं राया जणणीगिहं पत्तो ॥१॥'आवासदुवारि ठिओ सिरिपालनरेसरो सुणइ ताव । कमलप्पभा पयंपइ बहुय पइ एरिसं वयणम् ॥२॥'वच्छे ! परचक्केणं नयरी परिवेडिया समन्तेणम् । हल्लोहलिओ लोओ किं किं होही नयाणामि ॥३५॥ १. सैन्ये चावासिते सति रजन्यां प्रथमयामसमये । राजा श्रीपालो हारणभावेण स्वयं मातुर्गृहं प्राप्तः । २ श्रीपालनरेशर आवासस्य द्वारे स्थितः सन् यावत् शृणोति तावत् कमलप्रभा वधूं प्रतीदृशं वचनं प्रजल्पति । ३ हे वत्से ! परचक्रेण नगरी सर्वासु दिक्षु परिवेष्टिता अस्ति, लोकः सर्वोऽपि व्याकुलीभूतोऽस्ति, किं किं भविष्यतीति न जानामि. ॥३५॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy