________________
श्रीजैन कबासंग्रहः
श्रीपालचरित्रम्।
॥३३॥
तमदोऽवदत्॥३८८॥ त्वया यथा कुमारेन्द्र! प्रादुश्चक्रे निजं बलम् । तथा रूपमपिस्वीयं प्रकाश्याऽस्मान प्रमोदय ।। ३८९॥ तथाकृते कुमारेण भूपोऽप्यस्मै निजाऽङ्गजाम्। दत्त्वा प्रधाना 'वसथे स्थापयामासिवांश्च तम् ॥ ३९०॥ अन्यदाऽथ नरः कोऽपि सदः प्राप्य जगावदः । देव! दलपत्तनेऽस्मिन् धरापालाभिधो नृपः ॥ ३९१ ॥ तत्पुत्री जिनधर्मकचित्ता शृङ्गारसुन्दरी। प्रत्यज्ञासीत्पुरः पञ्चसखीनामिति साऽन्यदा॥३९॥ वृणोमि जिनधर्मज्ञमेव नान्यं वरं हला: ! । चुस्ता लक्ष्यते चित्तसमस्यापूरणात्स च ॥ ३९३ ॥ ततः सखीपञ्चकेन समस्यापञ्चकं बसौ । अदीदृशच्च भूपेभ्यो न च तत्कोऽप्यपूरयत् ॥ ३१४ ॥ तत् श्रुत्वागाऽत्कुमारस्तत्पुरं हारप्रभावतः। शालभञ्जिकया सद्यः समस्या अप्यपूरयत्॥ ३९५॥
तद्यथा-मणवञ्छियफलहोय। अरिहन्ताइ नवपय नियमणुधरे जुकोय। निच्छइ तसु नरसेहरह मणुवञ्छियफल होय॥३९६ ॥ द्वितीया प्राह- 'अवर म झंखो आल। अरिहंत देव सुसाधु गुरु धर्म ते दयाविशाल। मन्तूत्तमनवकारवर अवर म झंखो आल॥३९७ ॥ तृतीया स्माह-'करि सफलुं अप्याण १. प्रासादे २. अर्हदादीनि नवपदानि निजमनसि यः कोऽपि धरति तस्य । नरशेखरस्य निश्चयेन मनोवाञ्छितं फलं भवति । ३. अर्हन् देवः सुसाधुः गुरुः धर्मस्तु अनुकम्पया विशालः । मन्त्रेषु उत्तमो नमस्काराख्यमन्त्रः, एते एव देवगुरुधर्ममन्त्रेषु श्रेष्ठाः सन्ति, अत एतानेव भजत, अपरं सर्वमपि मा अङ्गीकुरुत ।। ४. वीतराग गुरुमाराध्य सुपानेभ्यो दानं देहि । तपःसंवमोपकारान् कृत्वा आत्मानं सफलं कुरु॥
॥३॥