________________
श्रीजैन कथासंग्रहः
॥३२॥
चकार करमोचने ॥ ३७६ ॥ तत्र स्थितः कुमारोऽसौ समयं गमयन्सुखम् । वैदेशिकेन केनाप्यन्यदेति ज्ञापितो मुदा ॥ ३७७ ॥ देव ! स्वर्णपुरे राजा वज्रसेनोऽभिधानतः । त्रैलोक्यसुन्दरी तस्य पुत्री स्वःस्त्रीमनोहरा ॥ ३७८ ॥ अथ तस्याः कृते राज्ञा स्वयंवरणमण्डपम् । प्रारभ्याऽऽकारिताः सन्ति शतसङ्ख्या नरेश्वराः ॥ ३७९॥'शुचिशुक्लद्वितीयायां लग्नं कल्ये च तद्दिनम् । श्रुत्वेत्यगात्कुमारोऽपि कुब्जरूपेण तत्पुरम् ॥ ३८०॥ कुब्जं वीक्ष्य नृपाः प्रोचुः किमर्थ त्वं समागतः ? । सोऽप्याख्यद्यत्कृते यूयमागतास्तत्कृतेऽप्यहम् ॥ ३८१ ।। इत्थं नानाविधैर्वाक्यहाँसयामास तानयम् । अत्रान्तरे नृपसुताऽप्यारुह्य शिबिकां वराम् ॥ ३८२ ॥ दधाना वाससी शुभ्रे स्वर्णरत्नविभूषणा। समागाद् बिभ्रती पाणी स्वयम्वरणमालिकाम् ॥ ३८३ ॥ दर्शितेषु प्रतीहार्या निखिलेष्वपि राजसु । स्वरूपस्थं कुमारं तं दृष्ट्वाऽसौ मुमुदेतराम् ॥ ३८४ ॥ अत्रान्तरे शालभञ्जीवदनाद्धारदेवता। प्राह विज्ञाऽसि वत्से ! चेत्तदमुं कुब्जकं वृणु ॥ ३८५ ॥ यदि धन्याऽसि विज्ञाऽसि जानासि च गुणात्नरम् । तदेनं कुब्जकाऽऽकारं वृणु वत्से! नरोत्तमम् ॥ ३८६ ॥ तत् श्रुत्वा कुब्जरूपोऽपि वृतो यावत्तदैतया। उदायुधा नृपास्तावत्तं कुब्ज पर्यवेष्टयन् ॥ ३८७ ॥ क्षणाजिगाय तानेष कुब्जोऽपि स्वभुजौजसा । तदृष्ट्वा वज्रसेनोऽपि कुब्जकं १प्रावण २ः
DOODowwwanOOR
॥३२॥