________________
श्रीपालचरित्रम्।
तंबावस्वं प्रातवाक्ष्य मियोऽवदत् । नूनमत्युग्रपापानां फलमत्रैव दृश्यते॥३५०॥वचिन्त्यते परस्मिन् हितत्स्वस्येवाधिगच्छति। कुमारे चिन्तितो द्रोहः श्रेष्ठिन्येव यथाऽभवत् ॥३५१॥ तच्चरित्रं कुमारोऽपि ध्यायन् शोकात्सगद्दः । तत्प्रेतकृत्यं कृत्वाऽथ ददौ तस्मै जलाउञ्जलिम् ॥ ३५२ ॥ धवलस्य च त्रयो
भूवन् सद्बुद्धिदायकाः । सर्वश्रीणां कुमारेण तेऽधिकारे नियोजिताः ॥ ३५३ ॥ कुमारोऽथान्यदा राजपाटिकार्य विनिर्गतः । सार्थवाहं पुरः कञ्चिद् द्रष्टा पप्रच्छ चेति तम् ॥ ३५४ ॥ कुतस्त्वमागतः? कुत्र गमिष्यसि ? च सार्थप!नानादेशभ्रमात्प्राप्तमाश्चर्य ब्रूहि किञ्चन ॥ ३५५ ॥ सोऽप्याख्यदागत: कान्त्याः कम्बुद्वीपं व्रजामि च । दृष्टं यदन्तराश्चर्य तत्कुमार! निशम्यताम् ॥ ३५६ ॥ इतोऽस्ति योजनशते कुण्डलाख्यपुरे नृपः । मकरकेतुस्तद्राज्ञी कर्पूरतिलकाभिधा॥ ३५७॥ तयोर्बहुषु पुत्रेषु सुताऽभूगुणसुन्दरी ।साच सर्वकलादक्षा वीणावाचे विशेषतः॥३५८॥ प्रत्यज्ञासीदिदं सा चाऽन्यदा वीणाविधौ हिमाम् । विजेता वरणीयो यः स एव हि वरो मया ॥ ३५९ ॥ तत् श्रुत्वा तत्र सम्प्राप्ता राजपुत्रा अनेकशः । वीणाऽभ्यासं प्रकुर्वन्ति तत्पाणिग्रहहेतवे ॥ ३६० ॥ परं न जीयते केनाप्यसौ बीणाविशारदः । त्वं चेजेण्यसि राजंस्तां तत्तवैव भवित्र्यसौ॥ ३६१ ॥ इत्याकये कुमारोऽपि दिदृशुस्तत्कुतूहलम् । कृत्वा नवपदध्यानं यावत्सुप्तोऽस्ति तावता ॥ ३६२ ॥ सौधर्मवासी श्रीसिद्धचक्राधिष्ठायकः सुरः । विमलेश
॥३०॥