SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥२९॥ पीत्वा गृहं किं पृच्छ्यते ? नृप ! ॥ ३३६ ॥ सैन्यं सज्जय यथा मे भुजी निगदतः कुलम् । स्वजिह्वया स्ववंशस्य वर्णनं यत् त्रपाकरम् ।। ३३७ ॥ यद्वा प्रवहणान्तःस्थे आनीय वनिते मम । कुलं पृच्छ क्षमानाथ ! यदि ते संशयोऽस्त्ययम् ॥ ३३८ ॥ पप्रच्छ धवलं राजा त्वद्याने वनितायुगम् । किमस्ति सोऽपि विच्छायस्तत्क्षणान्यग्मुखोऽभवत् ।। ३३९ ।। नृपादिष्टैर्नरैस्ते द्वे आनिन्ये तत्क्षणादपि । अप्येते निजभर्त्तारं वीक्ष्य स्वान्ते जहर्षतुः ॥ ३४० ॥ अथ पृष्टा नरेन्द्रेण विद्याधरसुता जगी । कुमारचरितं सर्व जगदाश्चर्यकारकम् ।। ३४१ ।। राजा प्रोवाच तन्नूनं ममैव भगिनीसुतः । सकुटुम्बोऽपि मातङ्गो राज्ञा रुष्टेन ताडितः ।। ३४२ ।। सोऽप्याह सर्वमप्येतत्सार्थवाहेन कारितम् । अस्माभिर्धनलोभान्धैस्तत्प्रभो ! क्षम्यतामिदम् ।। ३४३ ।। रुष्टो नृपः श्रेष्ठिनं तं वधाय समुपादिशत् । कुमारोऽमुमुचत्तं च सन्तः सर्वत्र सकृपाः ॥ ३४४ ॥ मातङ्गाधिपतां पृष्टः राज्ञा नैमित्तिकोऽवदत् । मातङ्गा हस्तिनस्तेषामधिपोऽयं भविष्यति ।। ३४५ ॥ ततो विसृष्टः सत्कृत्य नैमित्तिकशिरोमणिः । जामातरं च जामेयं श्रीपालं बह्वमन्यत ॥ ३४६ ॥ कुमारोऽप्येष धवलं नीत्वा निजनिकेतने । स्वगेहचन्द्रशालायां स्थापयामास मानदः ।। ३४७ ।। तत्र सुप्तोऽन्यदा रात्री कुमारघातं चिन्तयन् । आरुह्य सप्तम भूमिं यावद्घातार्थमुद्यतः ॥ ३४८ ॥ तावत्तदुत्थपापेन पातितः प्राप पापभाक् । विहाय सप्तर्मी भूमिं सप्तर्मी नरकावनिम् ॥ ३४९ ॥ लोकोऽपि श्रीपालचरित्रम् । ॥२९॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy