SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीजेन कथासंग्रहः ॥२८॥ । तावत्तैर्गदितं स्वामिन् ! किं रुष्टोऽस्मासु वर्त्तसे ? ।। ३२३ ।। अथाऽऽकार्य रहस्येकं श्रेष्ठी मातङ्गमूचिवान् । हंसि केनाप्युपायेन नृपजामातरं यदि ॥ ३२४ ॥ वितरामि तदा नूनं सर्व त्वन्मुखमार्गितम् । गृहाण कार्यसिद्ध्यर्थमर्द्धलक्षमितं धनम् ॥ ३२५ ॥ प्रतिपद्य तदेषोऽपि सकुटुम्बो नृपान्तिके । चक्रे गानं नृपोऽप्यस्मै स ताम्बूलमदापयत् ।। ३२६ ॥ तदैका वृद्धमातङ्गी कुमारगलकन्दले । लगित्वा कुत्र पुत्र ? त्वमित्युक्त्वा व्यलपद्बहु || ३२७ ॥ हा वत्स ! कियतः कालान्मिलितोऽसि ममाधुना । कुत्र भ्रान्त इयत्कालं ? शोधितोऽसि पदे पदे ।। ३२८ ॥ मातङ्गोऽप्यवदत्स्वामिन् ! लघुभ्राता ममाऽसकौ । युष्मत्पार्श्वस्थितः सम्प्रत्यस्माभिश्चोपलक्षितः ।। ३२९ ।। एकाऽवोचन्मम भ्राता भ्रातृव्योऽस्यपराऽवदत् । देवरोऽस्यपरोवाच पुण्यैः प्राप्तोऽसि साम्प्रतम् ॥ ३३० ॥ दध्यौ नृपो हहाऽनेन कुलं मम कलङ्कितम् । तदेष कुत्र हन्तव्यः पापभाजां शिरोमणिः ॥ ३३९ ॥ नृपो नैमित्तिकं प्राह किमयं दुर्मते ! त्वया । मातङ्गो न ममाऽऽख्यातस्तद्वध्योऽसि त्वमप्यरे ॥ ३३२ ॥ नृपं नैमित्तिकोऽवोचन् मातङ्गो नैष नाथ ! हे । किन्तु मातङ्गनाथोऽयं भविष्यति न संशयः ।। ३३३ ।। गाढं रुष्टो नृपोऽप्येतौ वधार्थं यावदादिशत् । व्यजिज्ञपदिदं तावनृपं मदनमञ्जरी ।। ३३४ ॥ आचारेण कुलं ज्ञेयमिदं लोकेऽपि गीयते । लोकोत्तरस्तदाचारः कोऽप्यपूर्वोऽत्र दृश्यते ॥ ३३५ ॥ नृपः प्राह कुमारं भोः ! प्रकाशय निजं कुलम् । सोप्याचख्यौ जलं श्रीपाल चरित्रम् । ||२८||
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy