________________
श्रीजैन कथासंग्रहः
श्रीपालचरित्रम्।
॥२७॥
खेदो मनसीति निगद्य सा। कल्पवृक्षम्रज कण्ठेऽक्षिपन्मदनयोस्तयोः॥३१०॥ अस्याः स्त्रजोऽनुभावेन दुष्टा द्रक्ष्यन्ति वां न हि । इत्युदित्वा तिरोऽधत्त क्षणाच्चक्रेश्वरी सुरी ॥ ३११ ॥ त्रयोऽप्यथ वयस्यास्ते प्राहुः स्म धवलं प्रति । दृष्टं कुबुद्धिदातॄणां फलमत्रैव जन्मनि ॥ ३१२ ॥ अनयोः शरणं प्राप्य छुटितोऽसि भवानपि । पापं कुर्वन् पुनः श्रेष्ठिन् ! लप्स्यसेऽनर्थसन्ततिम् ॥ ३१३ ॥ अथाऽब्धौ वहमानेषु यानेषु निखिलेष्वपि । कियत्स्वपि दिनेष्वेव पुनरेवमचिन्तयत् ॥ ३१४ ॥ अहो ! पुण्योदयो यन्मे स्वायत्ता श्रीरसावभूत्। मन्येते चेत्स्त्रियौ मां तत् सौभाग्योपरिमञ्जरी॥ ३१५॥ विचिन्त्येति तयोः पार्श्व प्रेषयामास चेटिकाम् । सापि निर्भर्त्सता ताभ्यां ततः स्वयमगादसौ ॥ ३१६ ॥ मालाप्रभावतो यावन्मदने नैष पश्यति । कुदृयित्वा स दासीभिस्तावनिर्वासितो गृहात् ॥ ३१७ ॥ इतश्च तानि यानानि नीयमानानि वर्त्मना । पवनप्रातिकूल्येन सम्प्रापुः कौणं तटम् ॥ ३१८ ॥ धवलोऽप्युपदापाणिरुपागच्छन्नरेश्वरम् । स्थगीधरेण ताम्बूलं भूपोऽप्यस्मै व्यतीतरत् ॥ ३१९ ॥ श्रीपालः श्रेष्ठिनं वीक्ष्य तत्क्षणात्समलक्षयत् । चिन्तयामासिवानेवं श्रीपालं वीक्ष्य श्रेष्ठ्यपि ॥ ३२०॥ श्रीपालोऽयं किमथवा ? कोऽप्यन्यः ? सदृशोऽमुना । कुतोऽपि ज्ञाततद्वृत्तः श्रेष्ठी वजाहतोऽभवत् ॥ ३२१ ॥ नृपजामातरं तं स ज्ञात्वा श्रेष्ठी गृहं ययौ। मातङ्गानां कुलं तावत् तत्राऽऽगान गानहेतवे॥३२२॥ चिन्तातुरो यावदसावेभ्यः किशिद्ददातिन
॥२७॥