________________
श्रीजैन कथासंग्रहः
श्रीपालचरित्रम्।
॥२६॥
मदने हाहारवं भूमौ निपेततुः । कथंचिल्लब्धचैतन्ये सोरस्ताडं विलेपतुः ॥ २९८ ॥ अवलोऽपि तदाऽऽगत्यावदन्मधुरया गिरा । भद्रे ! मा कुरुतं खेदं शोच्यते न मृतं गतम् ॥ २९९ ॥ स तावद्युवयोः स्वामी युवां मुक्त्वा गतो यदि। तथा पुनरप्येषोऽहं भावी वां प्राणवल्लभः ॥ ३०० ॥ इति श्रुतिकटुप्राय वाक्यमाकर्ण्य दुःश्रवम् । विशेषाद् दुःखभाजिन्यौ दभ्यतुर्मनसीति ते ॥ ३०१ ॥ ध्रुवमेतेन पापेनाऽकार्यकार्यमिदं यतः । भुज्यते यादृगुद्वारस्तादृक्ष एव निश्चितम् ॥ ३०२ ॥ चिन्तयन्त्योरित्यनयोर्यजातं तन्निशम्यताम् । क्षणाजलेनोल्ललितं पवनेन च जृम्भितम् ॥ ३०३ ।। उन्नतं मेघमालाभियोंतितं विद्युताऽपि च । प्रसृतं घोरतमसा रौद्रशब्दैः समुत्थितम् ॥ ३०४ ॥ प्रवृत्तं चाट्टहासेनेत्युत्पाताः शतशोऽभवन् । तद् दृष्ट्वा धवल: श्रेष्ठी भयभ्रान्तमना अभूत् ॥ ३०५ ॥ उच्चैः कोलाहलाऽऽक्रान्ते सांयात्रिकजने तदा। चक्रेश्वरी प्रादुरासीत्सच्चक्रं बिभ्रती करे ॥ ३०६ ॥ तदादिष्टः क्षेत्रपालस्तं दुर्बुद्धिप्रदायकम् । उद्ध्य कूपस्तम्भेऽथ गतासुं चक्रिवान् क्षणात् ॥३०७॥धवलो भयभीत: सन् स्त्रियौ शरणमाश्रितः । मा कार्षीः पुनरित्युक्त्वा विमुक्तश्चक्रयाप्यसौ॥३०८ ॥ अथो जगाद मदने प्रीत्या चक्रेश्वरी सुरी । मासाऽन्ते बहुलक्ष्मीयुक् सङ्गमिष्यति वां पतिः ॥ ३०९॥ न कार्यस्तन्मनाक् १ छातिफाट इति भाषायाम्।
॥२६॥