________________
श्रीन कबासग्रहः
श्रीपालचरित्रम्।
॥२५॥
निश्चितम् । इत्युक्ते तेन तत्कार्य श्रेष्ठी सिद्धममन्यत ॥ २८५॥ अथान्यदा कौतुकार्थ तमारोप्योच्चमञ्चके । तेन कूटप्रयोगेण पातयामास सोऽम्बुधौ ॥ २८६ ॥ निपतन् सहसा सोऽप्यहंदादीन् ध्यायति स्म च । तत्प्रभावान्मीनपृष्ठे स्थितः कौरणमाप्तवान् ॥ २८७ ॥ कस्मिन्नपि वने तत्र चम्पकाख्यतरोस्तले। सुप्तो जजागार यावद्ददर्श परितो भटान् ॥ २८८ ॥ तैर्विज्ञप्तं विभो! स्थानाभिधानपुरवासिना। वसुपालनृपेणामी त्वत्कृते प्रेषिता वयम् ॥ २८९ ॥ यदस्माभिस्त्वमेवात्र यथोक्तगुणशोभितः । दृष्टोऽसि तत्समागच्छ समारुह्य तुरङ्गमम् ॥ २९०॥ तत्र प्राप्तः कुमारोऽपि सर्वारोपितविस्मयः। अभिगम्य नृपेणाऽपि दानमानैश्च पूजितः ॥ २९१ ॥ उक्तवानेकदा प्राप्तः कश्चिन्नैमित्तिकाग्रणीः । पुत्र्या मदनमञ्जर्याः पृष्टश्च वरहेतवे ॥२९॥ तेनोक्तं सितवैशाखदशम्यां जलधेस्तटे। छायातरुतले सुप्तः सोऽस्या भावी ध्रुवं वरः ॥ २९३ ॥ आनीतोऽस्येतदर्थ तत् पुत्र्याः पाणिग्रहं कुरु । इत्युदित्वा नृपश्चक्रे विवाहं वरकन्ययोः ॥ २९४ ॥ देशग्रामपुरादीनि ददतोऽपि नृपादसौ। स्थगीधरपदं स्वस्य सम्प्रार्थ्य लब्धवांस्ततः ॥ २९५ ॥ इतश्च धवलश्रेष्ठी सांयात्रिकनृणां पुरः । हा दैव! किं त्वया चक्रेऽस्मत्प्रभोरीदृशी दशा ।। २९६ ॥ वदन्नेवं शुचाक्रान्तो हृदयं कुट्टयन् भृशम् । विललाप स भूयोऽपि लोकप्रत्ययहेतवे ॥ २९७ ॥ तत् श्रुत्वा
॥२५॥