SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीपालचरित्रम्। ॥२२॥ प्रादुरासाजिनौकसि ॥२४॥ यथा-दोसनकाइं कुमरी इह नरवर दोसन कोइ। जिण कारणिं जिणहर जडिओ तं निसुणउ सहु कोड़॥२५०॥जसु नर दिइ होइसे जिणहरमुक्दुवारु । सोइज मयणमञ्जूसिय होइसइ भरतार ॥ २५१॥ सिरिरिसहर ओलगणी हुंचक्केसरी देवी। मासब्भिन्तर तसु नरह आणिसु निच्चल लेवी॥ २५२ ॥ यदृष्ट्या जिनगेहस्य द्वारमुद्धटयिष्यति । ध्रुवं मदनमञ्जूषायोग्यो भावीवरोऽप्यसौ ॥ २५३ ॥ श्रीमद्युगादिनाथांहिभक्ता चक्रेश्वरी जगौ । मासान्तस्तमिहानेष्ये विधेया नाऽधृतिस्ततः ॥ २५४ ॥ तद्द्वारोद्धाटने सर्वैरपि यत्नो विनिर्ममे । स च सर्वोऽपि सञ्जातोस्त्यवकेशीव निष्फलः ॥ २५५ ॥ पुरुषोत्तम! तच्चेत्त्वं द्वारमुद्धाटयिष्यसि। ध्रुवं चक्रेश्वरीवाणी तन्मासान्तर्मिलिष्यति ॥ २५६ ॥ तदाकर्ण्य कुमारोऽपि तत्राऽगात्सपरिच्छदः । दृष्टे तस्मिन् झटित्येव द्वारमुजघटेऽथ तत् ॥ ॥ २५७ ॥ ततः सर्वेऽपि सन्तुष्टा नृपामात्यादयो जनाः । नत्वा कुमारं पप्रच्छुर्निजवंशाभिधादिकम् ॥ २५८ ॥ स्वमुखेन अत्र कुमार्या दोषः कोऽपि नास्ति, नरवरस्य दोषः न । येन कारणेन जिनगृहं जटितं (पिहित) तत्कारणं सर्वः निशृणोतु ॥% यस्य नरस्य दृष्ट्या जिनगृहमुत्कद्वारं भविष्यति । स एव नरो मदनमञ्जूषाया भर्ता भविष्यति ॥ श्रीऋषभेश्वरसेविकाऽहं . चक्रेश्वरी देवी। मासाभ्यन्तरे तं नरं निश्चलं लात्वाऽऽनेष्यामि ॥ वांजीयु वृक्ष। ॥२२॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy