SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीपालचरित्रम्। ॥२२॥ ॥ २३५ ॥ कमारेन्द्रोऽपि सामग्यां प्रगुणायां ततोऽचलत् । रत्नदीपं च सम्प्राप्य तस्थौ वारिनिस्तटे ॥२३६ ॥ पश्यन्नाव्यविधिं यावदासीनोऽस्ति कुमारराट् । तावत्तत्रागतः कोऽपि पुरुषो वररूपभाक् ॥ २३७ ॥ विसृज्य नाटकं पृष्टः कुमारेन्द्रेण सोऽञ्जसा। कस्त्वम् ? कुतः समेतोऽसि? वदाश्चर्य च किञ्चन ॥ २३८॥ सोऽप्याह रत्नद्वीपेऽत्र रत्नसानुनगोत्तमे। सद्रत्नसञ्चयापुर्या नृपोऽस्ति कनकध्वजः ।। २३९ ।। चतुर्णा तस्य पुत्राणामुपयुका सुताऽभवत् । नाम्ना मदनमञ्जूषा जिनधर्मकनिश्चया॥ २४०॥ नृपोऽन्यदा जिनगृहे निजपूर्वजकारिते । श्रीयुगादिजिनं नन्तुं परिवारयुतोऽप्यगात् ।। २४१ ॥ विरचय्य महापूजां जिनस्य नृपपुत्र्यपि । साउनन्दा वन्दते देवान् जिनध्यानपरायणा ॥ २४२ ॥ नृपोऽपि तत्कृतां पूजा वीक्ष्य विस्मितमानसः । दथ्यौ जिनेन्द्रपूजायां कीदृगस्या हि कौशलम् ॥ २४३ ॥ यथावदनुरूपोऽस्या वरः कश्चन सम्भवेत् । तदा चिन्तासमुद्रस्य प्राप्नुयां पारमप्यहम् ॥ २४ ॥ इति चिन्तयतो राज्ञः कुमारी गर्भगेहतः । यावनिर्याति तावत्तत्कपाटयुगलं तथा॥ २४५ ॥ अमिललयुक्तेनाप्युद्धाट्यते न वै यथा। कुमारी स्वकृतां पूजामपश्यन्ती रुरोद च ॥ २४६ ॥ नृपोऽपि दथ्यौ दोषोऽयं ममैव यजिनालये। वरचिन्ताकृते शून्यमनाः क्षणमहोऽभवम् ॥२७॥ध्यात्वेति शासनसुरीप्रसादनविधौ नृपः। उपवासत्रयं चक्रे धूपोत्क्षेपपुरस्सरम् ॥ २४८ ॥ तृतीयस्मिन्नेव दिने चिन्ताचान्ते नृपे निशि । सहसा दिव्यवाण्येवं ॥२१॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy