SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीपालचरित्रम् । ॥२०॥ प्राप्तानि बब्बरद्वीपे यानपात्राण्यपि क्षणात् ॥ २२२ ॥ महाकालाऽभिधस्तत्र नृपो भूरिबलान्वितः । श्रेष्ठिनं समुपागत्य वस्तुशुल्कममार्गयत् ।। २२३ ॥ अददानोऽथ तं श्रेष्ठी युद्धाय प्रगुणीभवन् । समं भटायुतेनाऽपि जितो बद्धश्च तत्क्षणात् ॥ २२४ ॥ अत्रान्तरे कुमारोऽपि श्रेष्ठिनं प्राह भो! वद । क गतास्ते भटा? येभ्यः कोटिदत्ता तदा त्वया ॥ २२५ ॥ अद्यापि तव सर्वस्वं तदितो वालयाम्यहम् । यदार्द्धमपि दत्से मे सोऽपि तत्प्रतिपत्रवान् ॥ २२६ ॥ कुमारोऽपि ततः खाचापतूणीरभृत्स्वयम् । बद्ध्वा नृपं महाकालमानिन्ये श्रेष्ठिसन्निधौ ॥ २२७ ॥ बन्धान्मुक्तोऽथ धवलो नृपघातार्थमुत्थितः । शरणागत इत्युक्त्वा कुमारस्तंन्यषेधयत् ॥ २२८॥ रुष्टेन श्रेष्ठिनाथैते वृत्तिभङ्गानिराकृताः। कुमारेन्द्रस्य सेवायै सुभटाः समुपागमन् ॥ २२९॥स्वभागागतयानेषु नियुक्तास्तेन ते पृथक् । सच्चक्रे च महाकालनृपं बन्धाद्विमोच्य सः॥२३०॥महाकालोऽपितं पुण्यश्लोकं नीत्वा निजे पुरे। वसनाशनभूषायैः सत्कृत्येति जगाद च ॥ २३१॥ कुमारेन्द्र! त्वदायत्तं राज्यं प्राणाः श्रियोऽपि मे । तथापि याऽसौ मदनसेना नाम्ना ममाङ्गजा ॥ २३२ ॥ प्रसचैनां स्वयं (स्वीय) पाणिग्रहणेन कृतार्थय । तन्निर्बन्धात्कुमारोऽपि सद्य: परिणिनाय ताम्।। २३३॥ महाकालोऽपि भूपाल: स्वजामात्रे ततो ददौ । गजाश्वरत्नकोषाब्यं स्वर्णादि करमोचने ॥ २३४॥ नवनाटकं वस्त्रालङ्काररत्नादिभिर्भूतम् । महायानं चतुःषष्टिकूपस्तम्तं तथा। ॥२०॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy