________________
श्रीजैन कथासंग्रहः
श्रीपालचरित्रम्।
॥१९॥
'नानाविधैर्भूत्वा क्रयाणकैः । चाल्यमानानि यानानि मनागपि न चाऽचलन् ॥ २१०॥ चिन्तातुरेऽथ
धवले शाकिन्येका दोऽवदत् । द्वात्रिंशल्लक्षणेनात्र पुंसा बलिविधिं कुरु ॥ २११॥ नृपादेशेन नि थं श्रीपालं समवेत्यतं । श्रेष्ठी बलिविधानार्थ निजपुम्भिरधारयत्॥ २१२॥ एषोऽप्यपीद्धवलभटानेकोऽपि लीलया। ज्ञात्वा महानुभावं तमथ श्रेष्ठ्यप्यदोऽवदत् ॥ २१३॥ परोपकाररसिकोपायं कञ्चित्कुरुष्व तं । चलन्ति यानपात्राणि येनामूनि क्षणादपि ॥ २१४ ॥ दीनारलक्षदानेऽथ श्रेष्ठिना स्वीकृते सति । अचालयनवपदध्यानाद्यानान्यसौ क्षणात् ।। २१५ ॥ महामन्त्रस्मृतेरस्य प्रणष्टा दुष्टदेवता । दीनारलक्षं दत्वाथ श्रेष्ठी श्रीपालमूचिवान् ॥ २१६ ॥ दीनाराणां सहस्रेण प्रत्येकं प्रतिवत्सरम् । गृहीतमस्ति सार्थे स्वे भटानामयुतं मया॥ २१७ ॥ त्वमप्येष्यसि चेद्र ! तन्निजं ब्रूहि वाञ्छितम् । सोऽप्याह स्म यदेतेभ्यः सर्वेभ्यो दीयते त्वया ॥ २१८ ॥ एकाकिनेऽपि तच्छ्रेष्ठिन् ! यच्छ स्वच्छमना हि मे। स्नेहलोभेन यन्नूनमुच्छिष्टमपि भुज्यते॥२१९ ॥ दीनारकोटिमादास्ये वर्षे नैतत्तथापिते। दशसहस्रान् दास्यामि कुरु पश्चाद्यथोचितम् ॥ २२० ॥ कुमारोऽथाह मे तात ! 'राया कार्य न किचन । दत्त्वा भाटकमप्येतत्किन्त्वेष्यामि त्वया समम् ।। २२१ ॥ श्रेष्ठिनाप्योमिति प्रोक्ते यानारूढश्चचाल सः । १राया लक्ष्म्या।
॥१९॥