SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीपालचरित्रम्। सा विनोत्तरसाधक ॥१८॥ तोपकाराय कुमारायाः ॥ २०४॥ तत अहंदादिपदानि त्वं ध्यायेयंदनुभावतः। सुखेनैष्यामि कार्यों न हदिखेदो मनागपि॥१९८॥ ज्ञात्वा तन्निश्चयं सापि कृतकौतुकमङ्गला। विससर्ज सुतं सोऽपि चचाल करवालभृत् ॥ १९९ ॥ ग्रामाकरपुरादीनि शनैरुल्लङ्यन्नसौ। पृच्छति स्म वने कञ्चिन्नरं ध्यानकतत्परम् ॥ २०० ॥ कस्त्वं ? कथमिहकाकी? किंवाध्यायसि मानसे ?। सोऽप्याहतं स्मराम्येनां विद्यां सद्गुरुदेशिताम् ।। २०१॥न सिद्धयति परं भद्र ! सा विनोत्तरसाधकं । नरोत्तम ! ततस्त्वं मे भव तूत्तरसाधकः ॥ २०२ ॥ ततः कुमारसान्निध्यात्सिद्धविद्यः क्षणादसौ। ददौ कृतोपकाराय कुमारायौषधीयुगम् ॥ २०३ ॥ उक्तं च - जलतारिण्येकाऽपरा शस्त्रवारिणी। भुजयोर्धारणीये च वेष्टयित्वा 'त्रिधातुभिः ॥ २०४॥ ततः कुमारेण युतः स विद्यासाधको गिरेः । ययौ निकुञ्ज प्रोक्तं च धातुवादिनरैस्त्विदम् ॥ २०५ ॥ देव ! त्वदुक्तकल्पेनाऽस्माकं साधयतामपि। केनापि कारणेनात्र रससिद्धिर्न जायते॥२०६॥ कुमारोऽप्यूचिवान् भद्रा ! मदृष्ट्या साधयन्त्विति । तैस्तथा विहिते जाता सिद्धिः कल्याणसम्भवा ।। २०७ ॥ तदाग्रहादथादाय कुमारः काञ्चनं कियत् । भृगुकच्छपुरं प्राप्तो विलसन् धनमिच्छया॥२०८॥ तत्रागतोऽथ कौशाम्ब्यां महेभ्यो धवलाभिधः । यियासुः परकूलं स भूरियानान्यसजयत् ॥ २०९ ।। नृपादेशादयो १ स्वर्णरुप्यताम्रधातुभिः। ॥१८॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy