________________
श्रीपालचरित्रम्।
कासग्रहः
..LOAD
॥१६॥
जगौ। तच्छुत्वा नरनाथोऽपि हृष्टस्तद्गृहमागमत् ॥ १८७ ॥ सम्भाष्य बहुमानेन सुतां जामातरं तथा। महामहेन नृपतिनिजगेहं समानयत् ॥ १८८ ॥ श्रुत्वा तमथ वृत्तान्तं लोकः सर्वो विसिध्मिये । जिनेन्द्रशासनस्योच्चैः प्रभाव: प्रसृतो भुवि ॥ १८९॥ श्रीपालमन्यदा राजपाटिकाथै विनिर्गतम् । दृष्ट्वा ग्राम्येण केनापि पृष्टं कोऽयं नरोत्तमः ? ॥ १९० ॥ अन्येनोक्तं नरेन्द्रस्य जामाताऽसौ निगद्यते । वचः श्रुत्वेति विच्छायः स समागान्निजौकसि ॥ १९१ ॥ दृष्ट्वा तं तादृशं माताऽपृच्छत्कालुष्यकारणम् । सोऽप्याख्यदधमत्वस्य लक्षणं मेऽत्र तिष्ठतः॥१९२॥ यतः-उत्तमाः स्वगुणैः ख्याता मध्यमास्तु पितुर्गुणैः । अधमा मातुलैः ख्याताः श्वशुरैश्चाधमाधमाः ॥१९३॥ तेनाऽहं गमनं कुर्वे विदेशदर्शनेच्छया। त्वया सुखेन वध्वा च मातः ! स्थेयं स्वमन्दिरे ॥१९४ ॥ अथाह जननी वत्स! खेदं मा कुरु चेतसि । गृहाण पैतृकं राज्यं श्वशुरस्य बलादपि ॥ १९५॥ त्रपाकरमिदं मातरभिमानवतां नृणाम् । स्वबलाद्यदि गृह्णामि कृतार्थः स्यां तदा ननु ।। १९६ ॥ अनुमन्यस्व तन्मातर्विदेशगमनाय माम् । येनाऽचिरेण राज्यं स्वं गृहामिस्वभुजौजसा ॥१९॥
(तं पइ जंपइ जणणी - बालो सरलोसि तंसि सुकुमालो। देसंतरेसु भमणं विसमं दुक्खावहं
OwwwcX
॥१६॥