________________
श्रीपालचरित्रम्।
कथा
॥१५॥
॥१७४ ॥ मा भैर्भगिनि ! भद्रं ते भवामस्ते सहोदराः । तयाऽपि निजवृत्तान्तः सर्वस्तेभ्यो निवेदितः ॥१७५।। तेऽपि तां वेसरारूढां कृत्वा चेलुः शनैः शनैः । उद्भटा वैरिसुभटास्तावत्तत्र समागमन् ॥ १७६॥ अपृच्छंस्तेऽपिभो! दृष्टा काऽपि राजी सुतान्विता। उक्तं तैरस्ति सार्थे नश्चेत्कार्य तत्प्रगृह्यताम्॥१७७॥ एकेनोक्तमिमेऽस्मभ्यं 'पामानं ददते खलु । त (स) देव दीयते सर्वैर्नष्टास्ते तद्भयात्ततः ॥ १७८ ॥ क्रमेणोजयिनी प्राप्ता ससुता कमलप्रभा। स श्रीपालकुमारोऽपि क्रमात्प्रापन्नवं वनः॥ १७९॥ ततः स कर्मदोषेणोम्बररोगाहितोऽभवत् । श्रुत्वा कुतोऽपि कमला वैद्यं कुष्ठाऽऽमयापहम् ॥ १८०॥ कौशाम्ब्यां पुरि सम्प्राप्ता ज्ञात्वा तत्र मुनेर्मुखात् । पुत्रशुद्धिमिह प्राप्ता सा चाऽहं कमलप्रभा ॥ १८१ ॥ एष मे तनुजन्मा च भद्रे ! श्रीपालनामकः । यस्त्वत्सुताप्रियो जातो विख्यातो जगतीतले ॥ १८२ ॥ अथ सिंहरथस्याङ्गजन्मानं समवेत्य सा। प्रमोदपरतन्त्राभूद्विशेषाद्रूपसुन्दरी ॥१८३॥ वृत्तान्तमेनं चाऽज्ञापि पुण्यपालनृपस्तया। जामातरं समादाय सोऽपिस्वस्थानमागमत्॥१८४॥ अथान्यदा गवाक्षस्थं नृपस्तां वीक्ष्य सप्रियम् । अचिन्तयद्धी मत्पुत्री कुलं स्वमकलङ्कयत् ॥ १८५ ॥ क्रोधान्धेन मयाप्येकमयुक्तं विहितं खलु । कामान्धया मदनया द्वितीयं ही विधेर्वशात् ॥१८६ ॥ अत्रान्तरे पुण्यपालो राज्ञे तच्चरितं १खस इति भाषायाम्।
॥१५॥