________________
श्रीपालचरित्रम्।
कचासत्रह
॥१३॥
साऽपि ननाम ताम् ॥ १४७ ॥ पप्रच्छ जननी पुत्रं किमिदं वत्स ! दृश्यते । सोऽप्याह स्म स्नुषायास्ते प्रसादः पश्यतामिति ॥ १४८ ॥ साऽथ तवृत्तमाकर्ण्य सहर्षा समभूत् भृशम् । शशंस स्वं च वृत्तान्तमशेषमपि तद्यथा॥१४९॥ त्वां तथाविधरोगात वत्स! स्वच्छमते! तदा। गृहे विमुच्य वैद्यार्थ कौशाम्ब्यां पुरि जग्मुषी॥१५०॥ दृष्ट्वा जिनगृहे कञ्चित्तत्र ज्ञानधरं मुनिम् । अपृच्छं भगवन् ! सजः कदा मे भविता सुतः ? ॥ १५१ ॥ मुनिनोक्तं तदा भद्रे ! सुतस्ते जगृहे बलात् । तेनैव कुष्ठिवृन्देन निर्मितश्च निजः प्रभुः॥ १५२ ॥ तत्कृतोम्बरनामा स साम्प्रतं मालवेशितुः । उदुवाह सुतां तत्र नाम्ना मदनसुन्दरीम् ॥१५३ ॥ गुरूपदिष्टश्रीसिद्धचक्रमन्त्रस्मृतेरथ । भद्रे ! त्वदङ्गजो जातो जातरूपसमप्रभः ॥१५४ ॥ तत् श्रुत्वा मुदितस्वान्ता यावदत्र समागमम् । तावद्वध्वा समं दृष्टो ज्योत्स्नयेव सुधाकरः ॥१५५ ॥ तद्वत्स ! सवधूकस्त्वं जय जीव सुखान्वितः । यावजीवं ममापि स्याच्छरणं धर्म आहेत: ॥१५६॥ इतश्च पुत्रीदुःखेन दुःखिता रूपसुन्दरी। स्वभ्रातुः पुण्यपालस्य गृहे तिष्ठति शोकतः ॥१५७॥ अथाऽन्यदा जिनगृहे गता यावद्ददर्श सा। तावत्कुमारं तं जायाजननीभ्यां समन्वितम् ॥१५८ ॥ उपलक्ष्य च पुर्वी स्वां राज्ञी चेतस्यचिन्तयत् । नूनं तं कुष्ठिनं त्यक्त्वा मदनाऽन्येन चालगत्॥१५९॥कुले कलङ्क आनीतो जिनधर्मश्च दूषितः। यया न तादृशं दुःखं सुतया मृतयैतया॥१६०॥ यादृशीदृक्षवृत्तेन जीवन्त्यापि
BOOOOOwwwcom
॥१३॥