SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥४०॥ अबो यथागतं क्वापि, वराहवेदके गते। प्रतिश्रवमिव प्रोच्चैः, राजाऽऽरोहत् तुरङ्गमम् ॥ ४८४ ॥ सैन्यं सत्रहादेवाऽसौ, विमुच्य स्वयमेव तम् । निग्रहीतुमनाः क्रोडं, त्वरीतं निर्ययौ पुरात् ॥ ४८५॥ मनोवेगेन यात्यो, भूपतिः प्राप तत्क्षणात् । वनं शक्रावताराख्यं, मुदेवाऽभिमुखागतम् ॥ ४८६ ॥ अपश्यत् स्मेराब्जमुखी, कलहंसकमण्डिताम् । मृदुवीचीभुजां तत्र, शरयूमुदधिप्रियाम् ॥ ४८७ ॥ राजा पप्रच्छ पार्श्वस्थौ, स कपिजल-कुन्तलौ। अहो! क्वाऽसौ वराहस्तावूचतुर्नन्वयं पुरः ।। ४८८ ॥ वराहस्तद्वचः श्रुत्वा, घुर्घराऽऽरवमुच्चकैः । कुर्वाणोऽपि नृपक्रोधाद, दधावे वनगह्वरात् ॥४८९॥ लघुहस्तस्ततो राजा, जानुलम्बभुजोऽपि हि। रोमाञ्चकवचं बिभ्रद्, निर्भयोऽपि भृशं तनौ ॥ ४९० ॥ करे चापमलङ्कृत्य, पूरयंस्तद्वपुः शरैः । वराहं पातयामास, पूरयामास संश्रवम्॥ ४९१ ॥ (युग्मम्) ततः कपिञ्जलं प्राह, राजा पश्याऽग्रतः कियत् । लक्षमेतच्चलं भिन्नं ?, सोऽप्युपेत्य तथाऽकरोत् ॥ ४९२ ॥ स्वेनैत्य पश्य मित्रेति, प्रोक्तस्तेन नृपो द्रुतम् । दर्दश रुधिराद्र तं, ज्वलद्दवमिवाचलम् ॥ ४९३ ॥ उवाच च यथाऽस्यैवमतैरिश्चीयमाकृतिः । तथा मन्ये वराहेण, भाव्यं दिव्येन केनचित्॥ ४९४॥ कपिजलोऽवदद् देव !, द्वीपी चायं हतः पुरा । राजाऽऽह पुनरयं किं ?, विलोक्याह कपिञ्जलः ॥ ४९५ ॥ इदमज्ञातमेवाऽस्तु, राजा प्राह तथापि किम् ? । कुन्तलोऽप्याह किं ज्ञातेनाऽमुना देव ! चल्यताम् । ॥४०॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy