________________
कवाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥३८॥
सुसंसर्गस्य माहात्म्यं, व्यवहारेण कीर्तितम् । सर्वार्थसिद्धिकृत्सत्त्वविषयं वर्ण्यतेऽधुना॥४६१॥
चतुर्थी-सत्त्वोपरि हरिश्चन्द्रनृपकया। त्रियो नाशं यान्तु व्रजतु निधनं गोत्रमखिलं, शिरश्छेदो वाऽस्तु प्रभवतु समन्ताच्च विपदः। विवेकार्कज्योतिर्विघटितमहामोहतमसः, प्रतिज्ञातादर्थात् तदपिनचलत्येव कृतिनः।।४६२॥ सत्त्वमेव नृणां तत्त्वं, सत्त्वं सिद्ध्यै भवद्वये। विना सत्त्वं सजीवोऽपि, निर्जीव इति कथ्यते॥४६३॥ विशीर्णोऽपि यथा वृक्षः, सति मूले प्ररोहति । प्रक्षीणोऽपि तथा भूयो, नरः सत्त्वाद्विवर्धते ॥ ४६४ ॥ यद् दूरं यद् दुराराध्यं, दुर्घटं दुर्लभं च यत् । सर्व सिध्यति तत् सत्त्वात्, तद्विना तु सदप्यसत्॥४६५॥ श्रूयते हि पुरा लोके, श्रीमदीक्ष्वाकुवंशभूः । उदारचरितः सत्त्वे हरिश्चन्द्रो महानृपः॥४६६॥
तथाहि-अस्त्यत्र भरतेऽयोध्या, पुरी वप्रांशुकोज्ज्वला। प्रासादमण्डना नाऽन्यैरभिभूता सतीव या॥४६॥सूर्यवंशभवक्ष्मापवृत्तोज्ज्वलयशःश्रिया। जातच्छता महेश्वर्य, दधाति नगरीषु या॥४६८॥ नतिरेवोन्नतिर्येषां, दानमेव धनार्जनम् । परार्थ एव तु स्वार्थः, क्षमैव हि समर्थता ॥ ४६९ ॥ एवंविधनरोत्तंसैर्वृक्षरुद्यानभूरिव । या सदालस्कृता हर्ष, न केषां कुरुतेतराम् ? ॥४०॥ युग्मम् ॥
॥३८॥