________________
श्रीजैन
कथाचतुष्टयी।
कथासंग्रहः
॥३७॥
॥७॥ अग्रेऽपि मन्त्रिशासीत्तत्रार्थे भूभुजो हृदि। तन्निशम्य पुनर्बाद, प्रत्ययोजनि निश्चल:
c॥ ततः स्पष्टमुखो वीक्ष्य, मन्त्रिणं नृपतिर्जगी। येन मे जीवितं दत्तं, को दण्डस्तस्य युज्यते? ॥४९॥ मित्र ! त्वं यदि नादास्यस्तदा धात्रीफलानि मे। तदा क्वाहं क्व राज्यं च, क्व सुतः क्व परिच्छदः?॥५०॥ मन्त्र्याह; सुप्रभो! जज्ञे, कुतज्ञत्वं तवेयता। कार्य एव पुनर्दण्डः, पुत्ररत्नापहस्य मे॥५१॥ एकमामलकं तर्हि, वलितं त्रयमध्यतः । इत्युक्ते भूभुजा मन्त्री, जगी प्रीतिसगद्गदम् ॥५२॥ देव! सर्वगुणाधार! जगतीमौलिमण्डन!। यद्येवं ते कृतज्ञत्वं, तदास्त्वामलकत्रयी॥५३॥ चिरं कुरु कुमारेण, सहितो राज्यमक्षतम् । इत्युक्त्वाऽनाययत्तत्र, पुत्रं प्रेष्य निजान् नरान् ॥ ४५४॥ भूषिताङ्गं स्मितमुखं, ललमानं तथैव तम् । सुतं दृष्ट्वा नृपो हर्ष, विस्मयं च परं ययौ ॥ ४५५ ॥ किमेतदिति राज्ञोक्तं, मन्त्री लोकसमक्षतः। वृत्तान्तं पितुरादेशादारभ्याखिलमाख्यत॥५६॥ तन्निशम्य भृशं राजा, लज्जितः सत्स्वभावतः । मन्त्रिणं च करे कृत्वा, संप्रणयमिवाब्रवीत् ॥ ४५७ ॥ अमूल्याऽऽमलकं यत् ते, पुत्रतुल्यं कृतं मया। मर्षणीयोऽपराधोऽयं, त्वया मित्र ! महानिति ॥ ४५८॥ इत्यसौ लब्धसुस्वामि-सुकलत्र-सुमित्रजम् । अन्वभूत्सुखमैकात्म्यमापन्नो भूभुजा सह ॥ ५९॥ तौ भूप-सचिवौ राज्यं, भुक्त्वा सत्सङ्गगतत्परौ। सद्गुरोधर्ममासाद्य, हितोद्युक्तौ बभूवतुः॥ ४६०॥
॥३७॥