________________
श्रीजैन कथासंग्रहः
॥३६॥
पापं शान्तमशान्तं वा, परमेतन्मया कृतम् ॥ ४३४ ॥ इत्युक्ते तेन साऽवोचत् कथङ्कारमिदं कृतम् ? । सोप्पूचे यत्त्वयातीतदिने मे कथितं पुरः ॥ ४३५ ॥ गर्भवैरानुभावेन, केनाप्येष नृपाङ्गजः । दृशोर्दाहाय मे चक्रे, त्वन्मोहात् तन्मयेदृशम् ।। ४३६ ॥ तच्छ्रुत्वा किं वृथा कार्ये, विनष्टे परिदेवनैः ? । करोमि प्राप्तकालीनं, ध्यात्वैवं धीरमानसा ।। ४३७ ।। गत्वाऽसौ भर्तृमित्रस्य, वसन्तस्य तदाख्यत । सोऽपि भाव्यमिदं नूनं, ध्यात्वैवं धीरमब्रवीत् ।। ४३८ ॥ अये सुन्दरि ! मा भैषीर्जीवितेन धनेन च । विपदं निजमित्रस्य, रक्षाम्येव न संशयः ।। ४३९ ।। जातीपुष्पसमस्याऽस्य, जीवितस्य धनस्य च। मित्रार्थे यदि नाशः स्यात् किं न प्राप्तं फलं तदा ? ॥ ४४० ॥ इत्युक्त्वा स ययौ राजकुलं नत्वा नरेश्वरम् । कृताञ्जलिर्वसन्ताख्यः, सावष्टम्भं व्यजिज्ञपत् ॥ ४४१ ।। विकल्पं देव ! मा कार्षीस्त्वत्पुत्रनिधने खलु । अहं हेतुरतो वित्तं, जीवितं च गृहाण मे ॥ ४४२ ॥ निशम्येदं नृपो यावदास्ते संशयितो हृदि । मन्त्रिपत्नी समागत्य तावदेवं व्यजिज्ञपत् ।। ४४३ ।। वसन्तो मित्रदारार्थे, देव! विज्ञपयत्यदः । परं मे दोहदस्यार्थे, त्वत्पुत्रस्य वधोऽजनि ॥ ४४४ ॥ इति किङ्कृत्यतामूढो, नृपः शून्य इवाभवत् । ततो मन्त्री समागत्य, कम्पमान इवावदत् । ४४५ ।। मदीयपीडया देव ! मित्र-पल्याविमे मम । स्वं निवेदयतो नूनमपराधोऽत्र नैतयोः ॥ ४४६ ॥ आसन्नविपदा किन्तु जातदुर्मतिना मया। कुमारो निहतो नाथ ! योग्यं दण्डं कुरुष्व मे
कथाचतुष्टयी ।
॥३६॥