________________
श्रीजैन कथासंग्रहः
॥३५॥
मन्त्रिणा । द्वितीयामलकं दत्त्वा पुनः सज्जीकृतो नृपः ॥ ४२१ ।। एवं तृतीयवेलायामप्यामलकमर्पितम् पदानुलग्नं देवाच्च, पृष्ठे सैन्यमथागमत् ॥ ४२२ ॥ अग्रेसराश्ववारैस्तौ दृष्ट्वा चक्रे जयध्वनिः । मन्त्रिणोचे भटास्तावद्, नीरमानीयतां द्रुतम् ॥ ४२३ ॥ ततो व्याघुव्य तैः सैन्यं, वर्द्धाप्याऽऽनीय तत्र च । जलाऽन्नाहारसन्तुष्टः, सद्यश्चक्रे महीपतिः ॥ ४२४ ॥ राजाऽथ सपरिवारो, जगाम नगरं निजम् । पुनर्जन्मोत्सवं राज्ञश्चक्रुः सामन्तनागराः || ४२५ ॥ अथ राज्ञः सुतः पञ्चवर्षीयो मन्त्रिमन्दिरम् । क्रीडार्थं नित्यमायाति बालहारेण संयुतः ॥ ४२६ ।। सुस्वाम्यादिपरीक्षार्थमथ मन्त्री तमन्यदा । एकान्ते गोपयामास, सान्नपानं सयामिकम् ।। ४२७ ।। कुमारो नेक्ष्यते क्वापि, निशम्यैवं वचो नृपः । सर्वत्राऽऽलोकयामासाऽत्याकुलः प्रेष्य पूरुषान् ॥ ४२८ ॥ यावन्न क्वापि लब्धोऽसौ तावद् घूर्णितमानसः । शोकपङ्काविलो राजाऽधोमुखीभूय तस्थिवान् ॥ ४२९ ॥ दध्यौ च किमिदं हन्त ! कुमारो मन्त्रीमन्दिरम् । गतो न दृश्यते कुत्राप्यसम्भाव्यमदोऽखिलम् ॥ ४३० ।। राजलोकः समग्रोऽपि दुःखकृष्णमुखो नृपम् । आसनस्थं समभ्येति मुक्त्वा मन्त्रीप्रभाकरम् ॥ ४३१ ॥ अत्रान्तरे मन्त्रिपत्नी पतिं प्रपच्छ नाथ ! किम् । नाऽद्य राजकुले यातः सदुःखमिव सोऽब्रवीत् ॥ ४३२ ॥ प्रिये ! दर्शयितुं नात्ममुखं शक्नोमि भूपतेः । यन्मया तादृशो जघ्ने, कुमारो हतबुद्धिना ।। ४३३ ॥ सम्भ्रान्ता सा जगी शान्तं, पापमेतत्किमुच्यते ?
कथाचतुष्टयी ।
॥३५॥