________________
श्रीजैन कथासंग्रहः
॥३४॥
गन्तुं, प्रमातुमिव मेदिनीम् ॥ ४०८ ॥ यात यात द्रुतं भृत्याः ! शीघ्रं धावत सादिनः । दिव्येनेवैष केनापि, इयेन हियते नृपः ॥ ४०९ ॥ पूत्कुर्वतो जनस्यैवं, धावतामपि सादिनाम् । पापान्निधिरिवादृष्टः, सामात्योऽभून्नृपः क्षणात् ॥ ४१० ॥ यथा यथा नृपा-ऽमात्यौ, बल्गामाकर्षतो हठात् । तथा तथा चटद्वेगं गच्छतस्तौ तुरङ्गमौ ॥ ४११ ॥ सम्प्राप्तयोर्महाटव्यामामलक्यास्तरोरधः । गच्छतैव करेणात्तं मन्त्रिणाऽऽमलकत्रयम् ।। ४१२ ॥ अतिदूरं गतौ यावद्विलक्षीभूय तौ श्रमात् । वल्गां मुमुचतुस्तावदवौ तत्रैव संस्थितौ ।। ४१३ ॥ उत्तीर्णां च नृपामात्यो, प्राणैर्मुक्तौ च वाजिनौ । किमेताभ्यां निजस्वामिद्रोहकाभ्यामितीव तौ ? ॥ ४१४ ॥ तयोः खेदं क्षणं धृत्वा परदुःखाद् दुःखी नृपः । क्षुत्तृष्णापीडितो बाढं, मनस्येवं व्यभावयत् ॥ ४१५ ।। पृथिव्यां त्रीणि रत्नानि, जलमन्नं सुभाषितम् । मूढैरुपलखण्डेषु रत्नसंज्ञाऽभिधीयते ॥ ४१६ ॥ ध्रुवं सत्यमिदं वाक्यं यत्पर्याजे तनौ च मे । सत्स्वप्येतेषु रत्नेषु तृष्णा शाम्यति नाधुना ॥ ४१७ ।। उवाच व महामात्य ! तृषा बान्ति ममाऽसवः । मन्त्र्युवाचाऽऽकुलो देव! मा भू रक्षामि ते तृषाम् ॥ ४९८ ॥ एकमामलकं मन्त्री, ददौ त्रिभ्यो महीभुजे । निर्वृत्तात्मा तदाहारात्, तस्थौ स्वस्थः क्षणं नृपः ॥ ४१९ ॥ भूयस्तापादितः प्राह, मित्र ! पृष्टोऽसि सम्प्रति । तथा मां बाघते तृष्णा, यथा नूनं न जीव्यते ॥ ४२० ॥ इति मूर्च्छा गतो भूमौ पतन् भृत्वाऽऽशु
कथाचतुष्टयी।
॥३४॥