________________
कवाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥३३॥
कुमारस्तं, मित्र ! कस्ते मनोरथ: ? सोऽप्युवाच महाभाग !, तवाऽवस्थातुमन्तिके ॥ ३९५ ॥ तर्हि स्वस्थमनास्तिष्ठेत्युक्ते नृपतिसूनुना। तस्थौ प्रभाकरस्तत्र, हृष्टो दथ्यौ स्वचेतसि ॥ ३९६ ॥ अस्याऽहो! विशदा मूर्तिर्मितं च मधुरं वचः । नव्यमौचित्यचातुर्य, कटरे ! स्वच्छतात्मनः ॥ ३९७ ॥ बाल्येऽपि मधुराः केपि, द्राक्षावत् केपि चूतवत् । विपाकेन कदापीन्द्रवारुणीफलवत्परे ।। ३९८ ॥ आकृतौ हि गुणा नूनं, सत्यीभूतमिदं वचः । अमुष्य दर्शनेनापि, सफलो मे श्रमोऽजनि ॥ ३९९ ॥ तदस्य सेवया प्राच्यमचं कुस्वामिसङ्कजम् । अधुना क्षालयिष्यामीति निश्चित्य तथाऽकरोत् ॥ ४०० ॥ उत्तमप्रकृतिः स्वैर्य-गाम्भीर्य-विनयान्विता। श्रीरभूद् गृहिणी तस्य, कुमारार्पितवेश्मनः ॥ ४०१॥ महेभ्यः स्वजनाधारः, परोपकरणे रतः। पौरमुख्यो वसन्ताख्यस्तस्य मित्रमजायत ॥ ४०२॥ विपन्ने राज्ञि कालेऽथ, राजाऽभूद गुणसुन्दरः । प्रभाकरः पुनमन्त्री, सर्वकार्येषु यत्कृती॥ ४०३ ॥ अन्यदा शासतस्तस्य, प्रजा नीत्या प्रजापतेः । टोकनीये कृतौ हेडावित्तर्जात्यतुरङ्गमौ॥ ४०४॥ सल्लक्षणधरौ किन्तु, वैपरीत्येन शिक्षितौ। तत्स्वरूपमजानानस्तावत्पर्याणयन्नृपः॥४०५॥ एकस्मिन् स्वयमारूढो, द्वितीयेऽमात्यमादिशत् । जग्मतुः सपरिवारी, शनकैस्तौ पुराद बहिः।। ४०६॥वाहयित्वा क्षणं वाही, बाबाल्यां वेगमीक्षितुम् । कशाघातं नृपामात्यौ, कर्कशं चक्रतुस्तयोः ॥ ४०७॥ सहसोत्प्लुत्य तौ तस्मादलिदष्टौ कपी इव । प्रवृत्ती वेगतो
॥३३॥