________________
श्रीजैन कथासंग्रहः
॥३२॥
दैवतप्रायं पितुरेव वचः स्मृतम् । यदतिक्रमणे सद्यो, ममाभूदीदृशं फलम् ॥ ३८२ ॥ इति श्लोकं पठित्वाऽसौ तं मयूरं यथास्थितम् । समर्प्य सिंहमापृच्छ्य, प्रसन्नास्यस्ततोऽचलत् ॥ ३८३ ॥ सवैलक्षं स सिंहेन, बोधितोऽपि न संस्थितः । प्रत्यक्षदृष्टदोषाणां करोत्यनुनयः किमु ? ॥ ३८४ ॥ गच्छंश्च चिन्तयामास, धिगेषां दुष्टचेष्टितम् । किम्पाकवृक्षच्छायेव, दुरन्ता खलसङ्गतिः ॥ ३८५ ॥ भस्मनि हुतमिवामीषु तत्तथोपकृतं मया । सर्वमेकपदे नष्टं भव्यं वा जीवितोऽस्मि यत् ॥ ३८६ ॥ नृणां मृत्युरपि श्रेयान्, पण्डितेन सह ध्रुवम् । न राज्यमपि मूर्खेण, लोकद्वयविनाशिना ।। ३८७ ॥ किञ्चशिरसा सुमनःसङ्गाद् धार्यन्ते तन्तवोऽपि हि । तेऽपि पादेन मृद्यन्ते, पटेषु मलसङ्गताः ॥ ३८८ ॥ स्वामिमित्र - कलत्राणामधमानां परीक्षणम् । कृतं तावदिदानीं तु करिष्यामि पितुर्वचः ॥ ३८९ ॥ इति गच्छंस्ततः प्राप, सुन्दरं नगरं क्रमात् । तत्र हेमरथो राजा, तत्पुत्रो गुणसुन्दरः ॥ ३९० ॥ त्यक्तकुंव्यसनासङ्गः, कृतज्ञः कोविदप्रियः । जनानुरागसुभगो, लघीयानपि विश्रुतः ।। ३९१ ॥ बहिः खलूरिकायां तं, शस्त्राभ्यासरतं सदा । दृष्ट्वा हृष्टोऽन्तिके गत्वा, चोपतस्थे प्रभाकरः ॥ ३९२ ॥ कुमारोऽपि तमालप्य, श्रमान्ते स्वच्छया गिरा । भोज्यागमे स्वहस्तेन, भोजयामास गौरवात् ॥ ३९३ ॥ यतः - प्रसन्ना दृग् मनः शुद्धं, ललिता वाग् नतं शिरः । सहसाऽर्थिष्वियं पूजा, विनाऽपि विभवं सताम् ॥ ३९४ ॥ पप्रच्छ च
कथाचतुष्टयी ।
||३२||