SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥३१॥ मयि, ततःस्नेहातिरेकतः । बराकस्त्वत्य एवायं, शिखी हत्वा ममार्पितः॥३७०॥अत्यासङ्गविनष्टोऽयमरे ! किं कृतवानिति ? | रुष्टः सिंहो भटान् प्रेषीन्निग्रहीतुं प्रभाकरम् ॥ ३७१ ॥ सोऽपि मित्रपरीक्षार्थ, लोभनन्दिगृहं गतः । उवाच कम्पमानाङ्गो, मित्र ! भो रक्ष रक्ष माम् ॥ ३७२ ॥ लोभनन्दिस्तमप्राक्षीत्, किं त्वया भो! विनाशितम् ? । स उवाच कलत्रार्थे स्वामिबहीं हतो मया ॥ ३७३ ॥ ततो मित्राधमः प्राह, स्वामिद्रोहविधायिनः । स्थानं नास्त्यत्र कः पूलं, ज्वलन्तं स्वगृहे क्षिपेत् ? ॥ ३७४ ॥ एवं वदन्तमप्येनं, क्षिप्त्वा यावत्प्रभाकरः । प्रविवेश गृहं तावत्, पूच्चक्रे लोभनन्दिना ॥ ३७५ ॥ आगताश्च भटास्तैः स, बद्ध्वाऽऽनीतो बहिस्ततः। निग्रहायोद्यतास्तेन, सदैन्यमिति भाषिताः ॥ ३७६ ।। बान्धवाः !न मया कोऽप्युपकारो वः कृतः परम् । अप्रियं यदि नो चक्रे, तदा मां रक्षतैकदा ॥ ३७७ ॥ किं वा नयत मांतत्र, यथा विज्ञपये प्रभुम् । इत्युक्ते तैः स सिंहान्ते, नीतः सकरुणं जगौ॥ ३७८ ॥ देव! त्वं मे पिता स्वामी, शरणं त्वं च सर्वथा। क्षमस्वैकं व्यलीकं यद्, गुरवो न गुरुक्रुधः ॥ ३७९ ॥ तत् श्रुत्वा प्रकुटीभाभीषणः सिंह उक्तवान् । अरेऽपय मयूरं वा, स्मर वाऽभीष्टदैवतम् ॥ ३८० ॥ तदा च तस्य दुःखेन, जनोऽभूदाकुलोऽखिलः । विना मित्रकलत्राभ्यां, ते हि दर्शितविक्रिये ॥ ३८१ ॥ स चे १त्वदीयः ॥३२॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy